सामग्री पर जाएँ

इन्द्रायुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रायुधम्, क्ली, (इन्द्रस्यायुधमिव चापाकृतिंत्वात् ।) इन्द्रधनुः । इत्यमरः ॥ रामधनुक गण्डी इत्यादि भाषा । (“स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्” । इति रघुवंशे । १२ । ७९ । तथा, मनुः । ४ । ५९ । “न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः” ।)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रायुध नपुं।

इन्द्रधनुस्

समानार्थक:इन्द्रायुध,शक्रधनुस्

1।3।10।2।1

स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः। इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम्.।

सम्बन्धि1 : मेघः

 : ऋजु_इन्द्रधनुस्

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रायुध¦ न॰

६ त॰।

१ शक्रस्यास्त्रेवज्रे
“सनादं मेघनादस्यधनुश्चेन्द्रायुधप्रभम्” रघुः। इन्द्रे तदधिष्ठितमेघे आयुध-मिव। सूर्य्यकिरणसंपर्कात् मेघे जायमाने

२ धनुराकारे-पदार्थभेदे तल्लक्षणाद्युक्तं वृ॰ स॰
“सूर्य्यस्य विविधवर्ण्णाःपवनेन विघट्टिताः कराः साभ्रे। वियति धनुःसंस्थानाये दृश्यन्ते तदिन्द्रधनुः। केचिदनन्तकुलोरगनिःश्वासो-द्भूतमाहुराचार्य्याः। तद्यायिनां नृपाणामभिमुखमज-यावहं भवति। अच्छिन्नमवनिगादं द्युतिमत् स्निग्धं घनंविविधवर्णम्। द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रय-च्छति च। विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मर-ककारि। पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः। जलभध्येऽनावृष्टिर्भुवि शस्यबधस्तरौ स्थिते व्याधिः। वल्-मीके शस्त्रभयं निशि सचिवबधाय धनुरैन्द्रम्। वृष्टिं क-रोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम्। पश्चात् सदैववृष्टि कुलिशभृतश्चापमाचष्टे। चापं मघोनः कुरुतेनिशायाम् आखण्डलायां दिशि भूपपीडाम्। याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौच। निशि सुरचापं सितवर्णाभं जनयति पीडां द्विजपू-र्ब्बाणाम्। भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यंन चिराद्धन्यात्”।
“न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्-दर्शयेद्बुधः” मनुः
“इन्द्रायुधद्योतिततोरणाङ्कम्” रघुः। ततः तालादि॰ विकारे अञ्। ऐन्द्रायुधस्तद्विकारे त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रायुध¦ m. (-धः) The rainbow. f. (-धा) A kind of leech of various tints on the back. E. इन्द्र and आयुध a weapon; INDRA'S weapon.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रायुध/ इन्द्रा n. " इन्द्र's weapon " , the rainbow MBh. VarBr2S. Ragh.

इन्द्रायुध/ इन्द्रा n. diamond L.

इन्द्रायुध/ इन्द्रा m. a horse marked with black about the eyes

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the rainbow appearing in cloudless sky or at night, a bad sign for a state. M. २३३. 7. [page१-199+ २७]

"https://sa.wiktionary.org/w/index.php?title=इन्द्रायुध&oldid=491895" इत्यस्माद् प्रतिप्राप्तम्