इन्द्रियज
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियज¦ त्रि॰ इन्द्रियाज्जायते जन--ड
५ त॰। इन्द्रियसन्नि-कर्षजाते प्रत्यक्षे।
“तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते” भाषा॰। इन्द्रियजातादयोऽप्यत्र इन्द्रियाणि च विषयसन्निकर्षद्वारा ज्ञाने करणानि विषयसन्निकर्षश्च तत्र व्या-पारः व्यापारेणैव तेषां जनकत्वात् ज्ञानानां तज्जन्यत्वम्।
