सामग्री पर जाएँ

इन्द्रियनिग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रियनिग्रह¦ पु॰ इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वस्व-विषयेभ्यः निवर्त्तनेन निरोधः। इन्दियाणां यथेष्टं प्रवृ-त्तानां स्वस्वविषयेषु

१ प्रसङ्गनिवारणे। स च सर्व्ववर्णसाधारणधर्म्मः
“धृतिः क्षमा दयाऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” मनुः। इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः” एका॰ त॰ रघु॰।

२ योगसाधनाङ्गे श्रोत्रादीनांज्ञानेन्द्रियाणां वागादीनां च कर्ण्णेन्द्रियाणां स्वस्वव्यापारेषु अनियोजनरूपे रोधने च। सर्वेषामनिरोधेयोगसिद्ध्यभावोभङ्ग्या गीतायामुक्तः”।
“इन्द्रियाणान्तुसर्व्वेषां यद्येकं चरतीन्द्रियम्। तदस्य हरति प्रज्ञां दृतेःपात्रादिवोदकम्” मनसोनिग्रहादेवान्येषां निग्रहो भवतिनान्यथा
“इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। त-दस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि” गीतायां तथोक्तेः। मनोनिग्रहोपायश्च
“असंशयं महाबाहो! मनोदुर्निग्रहंचलम्। अभ्यासेन तु कौन्तेय! वैराग्येण च गृह्यते” गी-तोक्तेः अभ्यासवैराग्यैरूपः। यथेच्छमिन्द्रियप्रसङ्गे पाप-मप्युक्तम्
“विहितस्याननुष्ठानात् निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” या॰ स्मृ॰। इन्द्रियजयोप्यत्र इन्द्रियजये च शौचमेव हेतुः। यथाह पात॰ सूत्रभाष्ययोः
“शौचात् स्वाङ्गजुगुप्सा परैर-ससर्गः”
“सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदशनानि[Page0957-a+ 38] च” सू॰
“शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यंतत इन्द्रिययस्ततश्चात्मदशनयोग्यत्वम् बुद्धिसत्त्वस्य भ-वतीति” भा॰ एष च बाह्य उपायः। आभ्यन्तर उपायस्तत्रैवोक्तः।
“ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रिय-जयः” पा॰ सू॰
“सामान्यविशेषात्मा शब्दादिर्ग्राह्यः तेष्वि-न्द्रियाणां वृत्तिर्ग्रहणं (

१ रूपम्) न च तत्सामान्यमात्रग्रह-णाकारम् कथमनालोचितः सविषयविशेष इन्द्रियेण मन-सानुव्यसीयेतेति! स्वरूपं पुनः प्रकाशात्मनोबुद्धिसत्त्वस्यसामान्यविशेषयोरयुतसिद्धावयवभेदानुगतः समूहो द्रव्य-मिन्द्रियम्। (

२ रूपम्) तेषां तृतीयं रूपम्। अस्मिताल-क्षणोऽहङ्कारः तस्य सामान्यस्येन्द्रियाणि विशेषाः। चतुर्थंरूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः,येषामिन्द्रियाणि साहङ्काराणि परिणामः। पञ्चमं रूपंगुणेषुयदनुगतं पुरुषार्थवत्त्वमिति पञ्चस्वेतेषुइन्द्रियरूपेषुयथाक्रमं संयमः तत्र तत्र जयं कत्वा पञ्चरूपजयादिन्द्रिय-जयः प्रादुर्भवति योगिनः” भाष्यम् तत्फलमपि तत्रोक्तम्।
“ततो मनोजवित्वं विकरणभावः प्रधानजयश्च” पा॰सू॰
“कायस्य मनोबदनुत्तमगतिलाभो मनोजवित्वम्। विदेहानाम् (देहानपेक्षाणाम्) इन्द्रियाणामभिप्रे-तदेशकालविषयापेक्षी वृत्तिलाभः अतीतानागतदूरस्थ-बाह्यार्थविषयश्च वृत्तिलाभो विकरणभावः। सर्वप्रकृतिवि-कारवशित्वं प्रधानभावः इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाउच्यन्ते एताश्च करण पञ्चकरूपजयादधिगम्यन्ते” भा॰एतासाञ्च बाह्यसिद्धीनां पारम्पर्य्येण सत्वपुरुषान्यत-माख्यातिरेव तु मुख्यं फलमिति तत्रैव प्रसिद्धम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रियनिग्रह¦ m. (-हः) Restraining the organs of sense. E. इन्द्रिय and निग्रह restraint.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रियनिग्रह/ इन्द्रिय--निग्रह m. restraint of the organs of sense.

"https://sa.wiktionary.org/w/index.php?title=इन्द्रियनिग्रह&oldid=491904" इत्यस्माद् प्रतिप्राप्तम्