इन्द्रियसन्निकर्ष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियसन्निकर्ष¦ पु॰ इन्द्रियस्य स्वस्वविषयैः सह सन्निकर्षःमम्बन्धभेदः। प्रत्यक्षसाधने इन्द्रियस्थ स्वस्वविषयैः सम्बन्ध-भेदरूपे प्रत्यक्षजनकव्यापारे। स च न्यायमते षोढा यथा
“विषयेन्द्रियसंबन्धोव्यापारः सोऽपि षद्धिधः। द्रव्यग्रहस्तुसंयोगात् संयुक्तसमवायतः द्रव्येषु समवेतानां, तथा तत्-समवायतः तत्रापि समवेतानां, शब्दस्य समवायतः। तद्वृ-त्तीनां समवेतसमवायेन तु ग्रहः। विशेषणतया तद्वद-भावानां ग्रहो भवेत्” भाषा॰। तथा च द्रव्यस्य प्रत्यक्षेइन्द्रियसंयोगः कारणम् द्रव्यसमवेतगुणकर्म्मजातीतां प्रत्यक्षेइन्द्रियसंयुक्तसमवायः। द्रव्यसमवेतसमवेतानां गुणत्वकर्म्म-त्वादीनां प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः। शव्दस्यप्रत्यक्षे श्रोत्रसमवायः शब्दवृत्तिशब्दत्वादेः, श्रोत्रसम-वेतसमवायः कारणम्।
“अभावप्रत्यक्षे समबायप्रत्यक्षे चइन्द्रियसंयुक्तस्वरूपसम्बन्धविशेषणता हेतुः। वैशषिकमतेतु समवायस्य न प्रत्यक्षम्। अत्र यद्यपि विशेषणतानानाविधा तथा हि भूतलादौ घटाभावः संयुक्तविशेष-णतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्तस-मवेतविशेषणतया, संख्यात्वादौ रूपाद्यभावः सयुक्तसम-[Page0958-a+ 38] वेवतमवेतविशेषणतया। शब्दाभावः केवलश्रोत्रावच्छिन्न-विशेषणतया। कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेत-विशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वाभावादिकंविशेषणविशेषणतया। एवं घटाभावादौ पटाद्यभावःसंयुक्तविशेपणविशेषणतया। एवमन्यदप्यूह्यम् तथापिविशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षीढा सन्निकर्षइति प्राचां प्रवादो व्याहन्यतेति” मुक्ता॰। इन्द्रियसंयोगादयोऽप्यत्र
