इन्द्रियायतन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियायतनम्, क्ली, (इन्द्रियाणां आयतनमाश्रय- स्थानम् ।) शरीरम् । इति हेमचन्द्रः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियायतन¦
६ त॰। श्रोत्राद्याधारे देहे तस्य इन्द्रियाधा-[Page0958-b+ 38] रत्वत्ताथात्वम्। स च सूक्ष्मएव देहः। यथाह सा॰ का॰
“पूर्व्वोत्पन्नम (श) सक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्”।
“प्रधाने-नादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् आ चादिसर्गात् आच महाप्रलयादवतिष्ठते महदादिसूक्ष्मपर्य्यन्तं महदहङ्का-रैकादशेन्द्रियपञ्चतन्मात्रपर्य्यन्तम् एषां समुदायः सूक्ष्मश-रीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः। नन्वस्त्वेत-देव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन षाट्कौशि-केन शरीरेणेत्यतआह संसरतीति उपात्तमुपात्तंच शरीरजहाति हायंहायं चोपादत्ते, कस्मात्? निरुपभोगं यतः,षाट्कौशिकं शरीरं विना सूक्ष्मं निरुपभोगं, तस्मात्संस-रति। ननु धर्म्माधर्म्मनिमित्तः ससारः न च सूक्ष्मशरीर-स्यास्ति तद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवा-सितं धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्याणि भा-वास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपिभावैरधिवासितं यथा सुरमिचम्पकसम्पकार्द्वस्त्रं तदामोदवासितम्भवति तस्माद्भावैरेवाघिवासितत्वात्संसरति। क-स्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठती-त्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्यलिङ्गत्वमिति” भावः। सा॰ कौ॰।
“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्यं सूक्ष्माङ्गं भोगसा-धननम्” स्मृतिः। पञ्चद॰ इदमेव वाक्यमुपन्यस्तम्। न्यायादिमते स्थूलदेहएव इन्द्रियायतनं तैः सूक्ष्मदेहा-नङ्गीकारात् इति भेदः जीवादृष्टवशादेवापूर्ब्बदेह एवतत्तदिन्द्रियाण्यपि तत्तद्देहे उत्पद्यन्ते मनासि तु अन-न्तानि तानि च नित्यानि तेषाञ्च अदृष्टवशात् एर्कक-स्मिन् देहे एकैकस्य प्रवेश इति हि तेषां सम्मतम्।
२ आत्मनि च
“आत्मेन्द्रियाद्यधिष्ठतो” लिङ्गशरीरशब्देएतेषां युक्तायुक्तत्वपरीक्षणम् करिष्यते।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियायतन¦ n. (-नं) The body. E. इन्द्रिय and आयतन a mansion: the resi- dence of the senses.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इन्द्रियायतन/ इन्द्रिया n. the residence of the senses
इन्द्रियायतन/ इन्द्रिया n. the body L.