सामग्री पर जाएँ

इन्द्रियार्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इन्द्रियार्थः, पुं, (इन्द्रियाणामर्थः ।) इन्द्रियजन्यज्ञान- विषयः । यथा । रूपं । शब्दः । गन्धः । रसः । स्पर्शः । तत्पर्य्यायः । विषयः २ गोचरः ३ । इत्य- मरः ॥ (यथा, मनुः । ४ । १६ । “इन्द्रियार्थेषु सर्व्वेषु न प्रसज्जेत कामतः” । “अपि स्वदेहात् किमुतेन्द्रियार्थात् यशोधनानां हि यशो गरीयः” । इति रघुः । १४ । ३५ ।)

"https://sa.wiktionary.org/w/index.php?title=इन्द्रियार्थः&oldid=116751" इत्यस्माद् प्रतिप्राप्तम्