सामग्री पर जाएँ

इभानुन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इभानुन¦ पु॰ इभस्याननमेवाननं यस्य। गजानने गणेशे तस्ययथा तदाननत्वं तथोक्तं
“स्वयं गोलकनाथश्च पुण्यकस्यप्रभावतः। पार्व्वतीगर्भजातश्च तव पुत्रो भविष्यति। स्वयंदेवगणानाञ्च यस्मादीशः कृपानिधिः। गणेश इति विख्या-तो भविष्यति जगत्त्रये।
“शनिदृष्ट्या शिरच्छेदात् गज-[Page0981-b+ 38] वक्त्रेण योजितः। गजाननः शिशुस्तेन नियतिः केनबाध्यते” ब्रह्मवै पु॰

६ अ॰। शनिदृष्ट्या तच्छिरश्छेद-कथा तत्रैव

१२ अ॰।
“पार्व्वतीवचनं श्रुत्वा सोऽनु-मेने हृदा स्वयम्। पश्यामि किं न पश्यामि पार्व्वतीसुत-मित्यहो। यदि बलो मया दृष्टस्तस्य विघ्नो मवेद्ध्रुवम्। अन्यथा मे प्रलापस्तत्परतः खात्मरणम्। इत्या-लोच्य च धर्मिष्ठो धर्मं कृत्वा स्वसाक्षिणम्। बालं द्रष्टंमनश्चक्रे न बालमातरं शनिः। विषण्णमानसः पूर्वं शुष्क-कण्ठीष्ठतालकः। सव्यलोचनकोणेन ददर्श च शिशोर्मु-खम्। शनिश्च वृष्टिमात्रेण चिच्छेद मस्तकं मुने!। चक्षुर्निवारयामास तस्थौ नम्राननः शनिः” एवं शिरश्छे-दमुक्त्वा।
“तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडंहरिः। जगाम पुष्पभद्रां स उत्तरस्यां दिशि स्थिताम्। पुष्पभद्रानदीतीरे ददर्श काननस्थितम्। गजेन्द्रं निद्रितंतत्र शयानं हस्तिनीयुतम्। दिश्युत्तरस्यां शिरसं मू-र्च्छितं सुरतश्रमात्। परितः शावकान् कृत्वा परमान-न्दमानसम्। शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा। स्थापयामास गरुडे रुघिराक्तं मनोहरम्”। गज-शिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्तजीवनं वरोदत्त इत्युपवर्ण्य।
“आगत्य बालकस्यानं बालंकृत्वाऽथ वक्षसि। रुचिरं तच्छिरः कृत्वा योजयामासबालके। ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया। जीवनं योजयाभास हुङ्कारोच्चारणेन च। पार्व्वतीं बोध-यित्वा तु दत्त्वा क्रोडे च तं शिशुम्। बोधयामास तांनाथ आध्यात्मिकविबोधनैः”
“सेनाचरीभवदिभाननदानवा-रिवासेन यस्य जनितासुरभीरणश्रीः” नैष॰। इभवक्त्रेभमुख-गमाननादयोऽप्यत्र।
“तं नमामि गजाननम्” माधवः।

"https://sa.wiktionary.org/w/index.php?title=इभानुन&oldid=225765" इत्यस्माद् प्रतिप्राप्तम्