सामग्री पर जाएँ

इरिविल्लिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इरिविल्लिका¦ स्त्री इरिविल्लैव कन्।
“पिडकामुत्तमाङ्गंस्थावृत्तामुग्ररुजाज्वराम्। सर्व्वात्मिकां सर्व्वलिङ्गां जानीया-दिरिविल्लिकामिति” निदानोक्ते मस्तकस्थे व्रणभेदे। कन-भावे इरिविल्लाप्यत्र।
“इरिविल्लां गन्धनाम्नीं कक्षांविस्फोटकास्तथा। पित्तजस्य विसर्पस्य क्रियया साधये-द्भिषक्” सुश्रु॰।

"https://sa.wiktionary.org/w/index.php?title=इरिविल्लिका&oldid=225946" इत्यस्माद् प्रतिप्राप्तम्