इल्वल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इल्वलः, पुं, (इल् + वलच् । निपातनात् गुणाभावः ।) दैत्यविशेषः । स च वातापेर्भ्राता । (स च सिंहि- कासुतः । यथा, हरिवंशे । ३ य अध्याये । “सैहिकेया इति ख्यातास्त्रयोदश महाबलाः । ९८ । ऐशः बल्यश्च बलिनौ नभश्चैव तथाबलः । वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा” ॥ ९९ ॥ तस्य विवृतिर्यथा महाभरते तीर्थयात्रापर्ब्बणि अगस्त्योपाख्याने ९६ अध्यायः । लोमश उवाच । “इल्वलो नाम दैतेय आसीत्कौरवनन्दन ! । सणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः । ४ । स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः । पत्त्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ५ ॥ तस्मिन् स ब्राह्मणो नादात् पुत्त्रं वासवसम्मितम् । चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ६ ॥ तदा प्रभृति राजेन्द्र इल्वलो ब्रह्महासुरः । मन्युमान् भ्रातरं छागं मायावो ह्यकरोत्ततः ॥ ७ ॥ मेषरूपी च वातापी कामरूप्यभवत् क्षणात् । संस्कृत्य च भोजयति ततो विप्रं जिघांसति ॥ ८ ॥ स आह्वयति यं वाचा गतं वैवस्वतक्षयम् । स पुनर्दहमास्थाय जीवन् संप्रत्यदृश्यत ॥ ९ ॥ ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् । तं व्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ १० ॥ तामिल्वलेन महता स्वरेण वाचमीरिताम् । श्रुत्वातिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः ॥ ११ ॥ तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः । वातापिः प्रहसन् राजन् निश्चक्राम विशाम्पते ॥ १२ ॥ एवं स ब्राह्मणान् राजन् भोजयित्वा पुनः पुनः । हिंसयामास दैतेय इल्वलो दुष्टचेतनः ॥ १३ ॥ अगस्त्यश्चापि भगवानेतस्मिन् काल एव तु । पितॄन् ददर्श गर्त्ते वै लम्बमानानधोमुखान् ॥ १४ ॥ ततः ९९ प्रध्याये इल्वलेन अगस्त्यातिथ्यं कृतम् ॥ यथा, -- लोमश उवाच । “इन्त्वलस्तान् विदित्वा तु महर्षसहितान् नृपान् । उपस्थितान् सहामात्यो विषयान्ते ह्यपूजयत् । १ । तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत् तदा । सुसस्कतेत कौरव्य भ्रात्रा वातापिना तदा । २ । ततो राजर्षयः सर्व्वे विषण्णा गतचेतसः । वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् । ३ । अथाववीदगम्त्यम्तान् राजर्षीनृषीसत्तमः । विषादो वो न कर्त्तव्यो ह्यहं भोक्षे महासुरं । ४ । धुर्य्यासनमथासाद्य निषषाद महानृषिः । तं पर्य्यवेशयद्दैत्येन्द्रः इल्वलः प्रहसन्निव । ५ । अगस्त्य एव कृस्नन्तु वातापिं बुभुजे ततः । मुक्तवत्यसुराह्वानमकरोत्तस्य चेल्वलः । ६ । ततो वायुः प्रादुरभूत् अधस्तस्य महात्मनः । शब्देन महता तात गर्ज्जन्निव यथा घनः । ७ । वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । ८ । तं प्रहस्याब्रवीत् राजन् अगस्त्यो मुनिसत्तमः । कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोऽसुरः । ९ । इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् । प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् । १० ।) मत्स्यविशेषः । इति मेदिनी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इल्वल¦ पु॰ इल + स्वप्ने वलच्--नि॰ गुणाभावः।
१ मत्स्यभेदे
२ असुरभेदे च मेदि॰ स च सिंहिकापुत्रभेदः
“सिंहिकायायथोत्पन्ना विप्रचित्तेः सुतास्तथा। दैत्यदानवसंयोगा-ज्जातास्तीव्रपराक्रमाः। सैहिकेया इति ख्यातास्त्रयो-दश महावलाः। व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः। वातापिर्नमुचिश्चैव इल्वलः सुसृमस्तथा। आञ्जिकोनरक-श्चैव (कालनेमि) कालनाभस्तथैव च। राहुर्ज्येष्ठस्तु तेषांवै सूर्य्यचन्द्रप्रमर्द्दनः” हरि॰
३ अ॰। तच्चरितं यथा(
“इल्वलो नाम दैतेय आसीत् कौरवनन्दन!। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः। स ब्राह्मणंतपोयुक्तमुवाच दितिनन्दनः। पुत्रं मे भगवानेकमिन्द्रतुल्यंप्रयच्छतु। तस्नै स ब्राह्मणो नादात् पुत्रं वामवसन्नि-भम्। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्। तदाप्रभृति राजेन्द्र! इल्वलो ब्रह्महाऽसुरः। मन्युमान्भ्रातरं छागं मायावी ह्यकरोत्ततः। मेषरूपी च वा-तापिः कामरूपोऽभवत् क्षणात्। संस्कृत्य च भोजयतिततो विप्रं जिघांसति। स चाह्वयति यं वाचा गतं वैव-स्वतक्षयम्। स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत। ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं[Page0985-b+ 38] भोजयित्वा पुनरेव समाह्वयत्। तामिल्वलेन महताखरेण वाचमीरिताम्। श्रुत्वाऽतिमायो बलवान् क्षिप्रंब्राह्मणकण्टकः। तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महा-सुरः। वातापिः प्रहसन्राजन्निश्चक्राम विनाशयन्। एवंस ब्राह्मणान्राजन्! भोजयित्वा पुनः पुनः। हिसयामासदैतेय इल्वलो दुष्टचेतनः” भा॰ व॰
९६ अ॰।
३ मृगशिरोनक्षत्रशिरःस्थासु पञ्चसु तारासु स्त्रीब॰ व॰। तत्र इन्वका इति पाठान्तरम। इन्वन्ति प्रीणयन्ति इवि-प्रीणने क्वुन् इदित्त्वात् नुम् क्षिपकादि॰ न अत इत्त्वम्इति भानुदीक्षितः। तेन इल्वका इति लकारमध्यपाठ-कल्पनं प्रामादिकमेव।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इल्वल¦ m. (-लः)
1. The name of a demon.
2. Of a fish. f. plu. (-लाः) Stars in Orin's head. E. इल् to send or go, and वल Una4di affix; the last is also written इल्वका।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इल्वल m. a kind of fish L.
इल्वल m. N. of a दैत्य(the brother of वातापि) MBh. Hariv. VP.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--A Samhikeya Asura: a son of ह्राद and Dhamani. Cooked वातापि for his guest Agastya. A fol- lower of वृत्र in his battle with Indra. फलकम्:F1: Br. III. 6. १९; भा. VI. १८. १५.फलकम्:/F Got exhausted in अमृतमथन। फलकम्:F2: Ib. VII. 2. 4; VIII. 7. १४.फलकम्:/F Took part in देवासुर war between Bali and Indra and fought with the sons of ब्रह्मा. फलकम्:F3: Ib. VIII. १०. २० & ३२.फलकम्:/F Father of Balvala. फलकम्:F4: Ib. X. ७८. ३८.फलकम्:/F
(II)--a son of Vipracitti. Vi. I. २१. ११. [page१-204+ २२]
(III)--a nephew of हिरण्यकशिपु. M. 6. २७.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ILVALA : An Asura, who lived in the Maṇimatī city. Ilvala and his brother Vātāpi ate up a number of brah- mins and Agastya cursed them to death. (See Agastya).
_______________________________
*2nd word in left half of page 318 (+offset) in original book.
