इषुकृत
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इषुकृत¦ त्रि॰ इषुरिव शीघ्रगामी ऋजुगामी वा कृतः। बाण-तुल्यं शीघ्रगामितया ऋजुगामितया च कृते।
“श्रिये पूष-न्निषुकृतेव देवा नासत्या” ऋ॰
१८
४ ,
३ । इषुकृतेव इवशब्दएवार्थे। आजिधावनाय इषुवच्छ्रीघ्रमृजुगामिनौ कृता-विव सन्तौ” भा॰ इषुकृता इव नासत्या इत्यादौ सर्वत्रछान्दस आ। एतेन इषुकृच्छब्दस्योदाहरणतया एतस्याऋच उपन्यासः प्रमादिक एव।
