सामग्री पर जाएँ

इषुविक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इषुविक्षेप¦ पु॰ इषोर्विक्षेपयोग्यदेशः। सार्द्धशतहस्तमितेशरविक्षेपयोग्ये देशे तन्मानमाह श्रा॰ त॰ पितामहः
“मध्यमेन च चापेन प्रक्षिपेत्तुशरत्रयम्। हस्तानाञ्च शतेसार्द्धे लक्ष्यं कृत्वा विचक्षणः। तत्प्रमाणदेशातिक्रमेणैवपुरीषोत्सर्गः कार्य्यः।
“ततः कल्यं समुत्थाय कुर्य्यात्मैत्रं नरेश्वर! नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः”। मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गं इषुविक्षेपमतीत्य इषुविक्षेपयोग्यदेशाद्वहिः” श्रा॰ त॰ रघु॰।

"https://sa.wiktionary.org/w/index.php?title=इषुविक्षेप&oldid=226319" इत्यस्माद् प्रतिप्राप्तम्