इष्टकाचयन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टकाचयन¦ न॰ इष्टकयाऽग्नेश्चयनम्। इष्टकया अग्नेश्च-यने तत्प्रकारः कात्या॰ श्रौ॰ सू॰।
“एतया विकृत्याभिमन्त्र्येकेऽन्यचितं चिन्वन्ति द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदु-भयतःप्रौगः समुह्य पुरीषः”
१६ ,
५ ,
९ ।
“एते ह्यग्नि-विशेषाः तदाकारांश्चिन्वन्त्येके एके सुपर्णचितम् विलि-ङ्गत्वादस्या विकृतेरग्न्यन्तरेष्वप्राप्तिर्मा भूदित्युच्यते एवंहि श्रूयते
“तं हैकएतय विकृत्याभिमन्त्र्यान्यां चितिंचिन्वन्तीति” (
६ ,
७ ,
२ ,
८ शत॰ ब्रा॰) क॰।
“विकृत्याएतया ऋचा अन्यचितं षद्ध्विवधमन्यमग्निं चिन्वन्ति त-मेवाह द्रोणचिदित्यादि” संग्र॰।
“समुह्य पुरीषे प्रतिदिशपुरीषाहरणम्”
१० सू॰। प्रतिदिशं पुरीषमाहृत्याहृत्यतेनैव चयनम्” क॰।
“विष्णुक्रमान् क्रमते विष्णो-[Page0996-a+ 38] रिति” (
१२ ,
५ यजु॰)
“प्रतिमन्त्रमग्न्युद्ग्रभणं च तस्मिं-स्तस्मिन्”
११ सू॰।
“तस्मिन् क्रमणे” क॰।
“अक्रम-श्चतुर्थे”
१२ सू॰।
“उद्ग्रहणं तु भवत्येव” क॰। दिशोवीक्षते दिशोऽनुविक्रमस्वेति (
१२ ,
५ )
१३ सू॰
“प्रतिदिशंमन्त्रः” क॰।
“पिण्डवत्प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्नि-रिति” (
१२ ,
६ )
१४ सू॰। पिण्डवदित्यूर्ध्वबाहुः(
३ ,
८ ) क॰।
“अवरोहत्यग्नेऽभ्यावर्तिन्निति” (
१२ ,
७ )
१५ सू॰
“प्रत्यवरोहत्यग्निम् यावत्कृत्य ऊर्ध्वोऽवरोहतीति” (
६ ,
७ ,
३ ,
६ )
“श्रुतेस्तद्वत्प्रत्यवरोहणम्” कर्कः।
“उपरि-नाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते” (
१२ ,
११ )
१६ सू॰।
“अग्निस्” क॰।
“पाशा उन्मुच्योदुत्तममिति” (
१२ ,
१२ )
“पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे वृहन्निति” (
१२ ,
१३ )
१७ सू॰।
“अवहरति हंसः शुचिषदिति” (
१२ ,
१४ )।
१८ सू॰।
“आसन्द्यां करोति वृहदिति” (
१२ ,
१४ )
१९ सू॰।
“उपतिष्ठते सीद त्वमिति” (
१२ ,
१५ )
२० सू॰।
“वात्सप्रेण च दिवस्परीत्येकादशभिः” (
१२ ,
१८ ,
२८ )
२१ सू॰।
“उपतिष्ठते” क॰।
“अनुवाकेनैके” (
१२ ,
१८ ,
२९ )
२२ सू॰।
“उपतिष्ठन्ते” क॰।
“अत्र दीक्षितोऽयमिति”
२३ सू॰।
“अस्मिन्नवसरे दीक्षितोऽयमित्याह (
७ ,
४ ,
११ )
“दण्डात्ते ह्युखाधिश्रपणाद्युक्तम् अतः प्राकृतानुवृत्त्यर्थ-मिदमुच्यते” क॰।
“आवृत्तिरतः संवत्सरम्”
२४ सू॰।
“अत ऊर्ध्वं यदुच्यते तत् संवत्सरं यावदावर्तते” क॰।
“अत ऊर्ध्वं यत्कर्मोच्यते भस्मोद्वपनादि तस्य संवत्सरंयावदावृत्तिर्भवति” संग्र॰।
५ कण्डिका(
“उखाया भस्मोद्वपनमस्तमिते पात्रे”
१ सू॰।
“तच्चप्राग्वाग्विसर्गात्”
“भस्मोदुप्य वाचं विसृजत” इति श्रुतेः(
६ ,
७ ,
४ ,
१४ ) क॰।
“भस्मोद्वपनं भस्मोद्धरणम्” संग्र॰।
“वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिति” (
११ ,
७५ )
२ सू॰।
“एवमुदिते भस्मोद्वपनादि”
३ सू॰।
“कर्तव्यम् अयं तु विशेषः” क॰।
“अहरहरित्याधानम्” (
११ ,
३५ )
४ सू॰।
“विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदितेसभिधमाधाय”
५ सू॰।
“अहर्व्यत्यासेन कर्तव्ये” क॰
“अस्मिन्दिने विष्णुक्रमाः उत्तरस्मिन्वात्सप्रम् एवं याव-द्दीक्षं कर्तव्यम्” संग्र॰।
“रुक्मप्रतिमोचनादि प्राग्वात्स-प्राद्विष्णुक्रमाः”
६ सू॰।
“तयोर्विभागमाह। साग्निकेक्रतौ संवत्सरं दीक्षा आम्नाताः संवत्सरमित्युपक्रम्यचिन्वीतेति (
१० ,
२ ,
६ ,
९ ) पवित्रे त्ततस्रो दीक्षा आम्नाताःपवित्रश्चतुर्दीक्ष इति (
१५ ,
१ ,
४ ) तत्राग्नौ सति चिन्त्य-[Page0996-b+ 38] ते किमग्निनिमित्ता दीक्षा भवन्तु उत सौमिक्य इतिउभयं चैतच्चरितार्थम् पवित्राद्बहिराग्निक्यश्चरितार्थाःअनग्निके च पवित्रे सौमिक्य इति तेन साग्निमति प-वित्रं कथं भवत्विति नियमकारणाभावादनियमे प्राप्तआह” क॰
“सोमाविरोधेन वा तत्प्रधान्यात्”
७ सू॰।
“सोमस्य प्रधानभूतत्वात् तदीया एव दीक्षा भवन्ति” क॰
“सोमयागेनाविरोधः सोमाविरोघः तेनाविरोधेनैव दीक्षाभवति वावघारणे कुतः तत्प्रधान्यात् सोमस्य प्राधान्यात्अग्नेश्च तदङ्गत्वात् तेन द्वादशाहे वाजपेये द्वादश सप्त-दश वा भवन्ति नाग्निप्रयुक्तसंवत्सरदीक्षाः” संग्र॰।
“न्यज्य समिधं व्रते प्रत्ते--प्रत्तेऽन्नपतैत्याधानम्। (
११ ,
८३ )
८ सू॰
“उख्येऽग्नौ यजमानः करोति” संग्र॰।
“संव-त्सरभृतिनोऽसंवत्सरभृतेऽपि”
९ सू॰। पूर्वं कस्मिं-श्चिद्यज्ञे साग्निके येनैकवारं संवत्सरमुख्योऽग्निर्भृतो भवतिस संवत्सरभृती तस्यासंभृतेऽप्युख्येऽग्नौ चयनं भवति(
९ ,
५ ,
१ ,
६५ ) संग्र॰
“संवत्सरं सोष्यतः”
१० सू॰।
“संवत्सरमभिषवं करिष्यतः असंवत्सरभृतेऽपि चर्थनंभवति (
९ ,
५ ,
१
६६ ) क॰।
“संवत्सराहिताग्नेः”
११ सू॰।
“असंवत्सरभृतेऽपि चयनमिष्यते” (
९ ,
६ ,
१ ,
६७ ) क॰।
“जातस्य च”
१२ सू॰।
“संवत्सरे जातस्य च असंवत्-सरभृतेऽपि चयनं भवति” (
९ ,
५ ,
१ ,
६८ ) क॰।
“गर्भाधानदिनादारभ्य संवत्सरे पूर्णेऽतोते वा यो जात-स्तस्य भवति” संग्र॰।
“षाण्मास्यमन्त्यम्”
१३ सू॰।
“अन्त्यं जघन्यमिदं पक्षान्तरम् षण्मासानुख्यभरणं कृत्वा-ग्निश्चीयत इति (
९ ,
५ ,
१ ,
६३ ) क॰।
“षाण्मास्यं षण्मासा-नुख्यमग्निं भृत्वा चयनं भवति” संग्र॰।
“अचयनंवा परस्मै”
१४ सू॰। चयनं वेति विकल्पः एवं हिश्रूयते (
९ ,
५ ,
२ ,
१२ ) त्रयो ह वै” इत्युपक्रम्य परस्मैकरोतीति निन्दार्थवादः प्रतिषेधार्थः तस्मादप्येवंवित् कामंपरस्मा अग्निं चिनुयादिति
९ ,
५ ,
२ ,
३ , प्रतिप्रसवः अतःप्रतिषेधप्रतिप्रसवाभ्यांविकल्पः” संग्र॰।
“प्रागनः कृत्वो-ख्यस्योत्तरतः समिदाधानं समिधाग्निमिति (
१२ ,
६० )
१५ सू॰।
“उख्यपुरतः प्राङ्मुखमनः कृत्वोख्यएव समिदाधा-नम्” क॰।
“सासन्दीकमुद्यम्योदुत्वेति (
१२ ,
६१ ) दक्षिण-तोऽनसि करोति”
१६ सू॰।
“सासन्दीकमुख्यमुदु त्वेत्युत्-क्षिप्यानसो दक्षिणतोऽवस्थितोऽनसि करोति” कर्कः।
“स्थाल्यां गार्हपत्यं पश्चात्”
१७ सू॰।
“अनसि करोतिदक्षिणाग्निं च वितृतीये करोति” क॰।
“अनड्वाहौ युक्त्वा[Page0997-a+ 38] प्रेदग्न इति (
१९ ,
३९ ) प्राङ् यात्वा यथार्थम्”
१८ सू॰।
“गच्छेत्” क॰।
“आरोहेत् पार्श्वतो गच्छेत्”
१९ सू॰।
“यजमानः संस्कारात्” क॰।
“अक्षेखर्जत्यक्रन्ददग्निरिति(
११ ,
३३ ) जपति”
२० सू॰।
“खर्जनं च शब्दकर-णम्” क॰।
“वासेऽवहरत्युद्धतावोक्षितौत्तरतः स-मिदाधानं प्र--प्रायमिति (
१२ ,
३४ )
२१ सू॰।
“यत्र वास-स्तत्रैवावहरणम् न प्राग्वसतेः एवं ह्याह (
६ ,
८ ,
१ ,
१२ )स यदि पुरावसत्यै विमुञ्चेतानस्येवाग्निः स्यादिति” वसत्यांतु उत्तरतोऽग्नीनवतार्य समिदाधानं
“प्र--प्रायमिति”। उद्धतावोक्षितग्रहणं च परिसमूहनाद्युपसंग्रहार्थमपिस्मार्तं ह्येतदनूद्यते (
६ ,
४ ,
४ ,
१८ ) उद्वते वाऽअवोक्षिते-ऽग्निमादधातीति” एवं च सति तदपचारे स्मार्तं प्राय-श्चित्तम्” क॰।
“वासार्थे रथे उत्तरस्यां दिशि अग्निमव-तारयति” संग्र॰।
“वनीवाहनमेतद्दीक्षासु यदेच्छेत्”
२२ सू॰।
“वनीवाहनमिति” संज्ञास्य कर्मणः सा च सं-व्यवहारार्था
“ऊर्द्ध्वं वनीवाहनादिति” (
२५ सू॰)तच्च दीक्षासु कर्तव्यम्। यदेच्छोपजायते महावीरकरण-यूपच्छेदनवनीवाहनानि दीक्षासु क्रियन्ते क्रमस्तु नैषाम्पाठाभावात्” क॰
“अप्सूख्यभस्मावपनं क्रयणीयादौ”
२३ सू॰। उख्यभस्मावपनमप्सु कर्तव्यम् आदौ क्रयणीय-स्याह्नः” क॰।
“अन्यत्र चेच्छन्”
२४ सू॰।
“करोति” क॰।
“ऊर्ध्वं वनीवाहनात् क्रमयोगात्”
२५ सू॰। अन्यत्रे-च्छयाकुर्वन् वनीवाहनादूर्ध्वं करोति मन्त्राणां पाठक्रम-योगात्” क॰।
“वनीवाहनादूर्ध्वं सोमक्रयदिने आदौअन्यत्र दीक्षा भस्मावपनम्। कुतः क्रमयोगात्पूर्वं वनीवाहनमन्त्राः पश्चाद्भस्मापोऽभ्यहरणस्य” संग्र॰
“पलाशपुटेनापो देवीरित्येकया (
१२ ,
३५ )
२६ सू॰।
“पलाशपुटेन भस्म गृहीत्वाप्स्वावपति” क॰।
“ततोद्वाभ्या-म्” (
१२ ,
३६ --
३७ )
२७ सू॰।
“पुनश्चावपति द्वाभ्या-मृग्भ्याम्” क॰।
“आद्याभ्यां (
१२ ,
६५ --
३६ ) वा पूर्वम्”
२८ सू॰।
“पूर्वमावपनं द्वाभ्यामृग्भ्याम् तत एकयर्चा” वाशब्दो विकल्पार्थः तुंल्यश्रुतित्वात्” क॰।
“अनामिकयाप्रास्तादादत्ते प्रसद्येति (
१२ ,
३८ --
४१ )
२९ सू॰।
“प्रास्ता-द्भंस्मनः कियदप्यनाभिकयादत्ते” (
६ ,
८ ,
२ ,
७ )।
“प्रास्यो-खामुपतिष्ठते बोधा मैति” (
१२ ,
४२ )
३० सू॰।
“यत्त-दात्तं भस्म तत्प्रास्य” क॰।
“प्रायश्चित्तिं समिधोप-हत्य”
३१ सू॰।
६ कण्डिका।
“आज्यं विश्वकर्भखैति (
१२ ,
४३ ) जुहोति”
१ सू॰। [Page0997-b+ 38]
“प्रायश्चित्तिरित्यस्य होमस्य संज्ञा उपपूर्वश्च हन्तिर्ग्रह-णार्थो दृष्टोऽन्यत्रापि
“अथस्त्रुचोपहत्याज्यमिति (
३ ,
४ ,
१ ,
२५ )” क॰।
“समिधा करणभूतया स्रुक्स्थानीयणाउपहत्य गृहीत्वा” संग्र॰।
“उत्थाय दधाति समिधंपुनस्त्वेति (
१२ ,
४४ )
२ सू॰। उत्थानग्रहणं च प्रति-पत्तित्वात् गुणार्थं चेति। नैमित्तिकान्यत्रैव प्रकरणे पठ्यन्तेतदर्थमाह” क॰
“गार्हप्रत्येऽनुगते निर्मथ्य”
३ सू॰।
“आदधाति मन्थनं प्राप्तत्वादवाच्यम् उच्यते प्रायश्चित्ता-र्थम्”।
“प्राजहिते उपशान्ते मथित्वा प्रायश्चित्ती करोति” संग्र॰।
“सुत्यावाहनीये सांकाशिनेन हृत्वाः”
४ सू॰।
“सुत्यासु वर्तमानासु आहवनीयेऽनुगते सांकाशिनेनहृत्वा तमादधाति” सांकाशिनशब्दः प्रगुणमेव हृत्वेत्यर्थकःएतच्चोच्यते पूर्ववत्प्रणयनं मा भूदिति” क॰।
“आहवनीयेऽतिप्रणीतेऽनुगते सांकाशिनेन हृत्वा ऋजुना सदोहवि-र्धानमध्यमार्गेणैव हृत्वा” संग्र॰।
“आग्नीध्रीयमुत्तरेणसदः”
५ सू॰।
“हृत्वा निदधाति उत्तरेण सदो हृत्वे-तीध्मव्युदासार्थः” क॰। आग्निध्रीयमग्निमनुगतं सदसउत्तरेणैव हृत्वा” संग्र॰।
“प्रवृञ्ज्यादावृतोख्ये”
६ सू॰।
“उख्ये चानुगते पूर्ववत्प्रवृञ्ज्यात् अयं तु विशेषः आवृताआवृद्ग्रहणं च मन्त्रनिवृत्त्यर्थम्।
“एतयैवावृतानुपहरन्यजुरिति (
६ ,
६ ,
४ ,
९ ) श्रुतेः” क॰।
“उख्येऽग्नावनुगतेगार्हपत्यादाहवनीयमन्वग्निरित्याहृत्य (
११ ,
१७ ) समितमित्यु-पस्थाय (
१२ ,
५७ ) आवृता मन्त्ररहितकियामात्रेण पूर्व-वदुखां प्रवृञ्ज्यात् उखामाहवनीयेऽधिश्रित्योख्यमग्नि-मुत्पादयेत्” संग्र॰।
“अध्वरप्रायश्चित्तं च सर्वेषुयथाकालं पूर्वां--पूर्वाम्”
७ सू॰।
“अध्वरप्रायश्चित्तिं चकरोति सर्वेषु निमित्तेषु तां च पूर्वाम् पूर्वां चशब्दा-दाग्निकीं च। सर्वग्रहणं च भस्मापोऽभ्यवहरणार्थम्। (
२
३ ) तत्रापि हि विधीयेते (
६ ,
८ ,
२ ,
११ ) उभे प्राय-श्चित्ती
“करोतिये एवाग्नावनुगते इति” यथाकालमितिचाध्वरप्रायश्चित्त्यर्थमुच्यते आग्निकी तु विश्वकमण-इत्येव” क॰
“सर्वेषु पूर्वोक्तेष्वग्न्यनुगमेषु यथाकालंपरमेष्ठ्यादिकालाहुतिं (
२६ ,
६ ,
१ ) पूवां पूर्वां जुहुयात्श्चादग्निप्रायश्चित्तिम् चकारात्” संग्र॰
“उखाभेदने नव-स्थाल्यां महामुख्यामुखाकपालमवधायावपति”
८ सू॰। यद्येषोखाभिद्येतेति” (
६ ,
६ ,
४ ,
८ ) प्रकृत्य सर्वमिदमाम्ना-तम् एतच्चेकोखापक्षे भवति। त्रित्वपक्षे तु द्वयोरेवैकस्या-मावपनम्” (
६ ,
५ ,
२ ,
२२ ) क॰।
“उखोपशये पिष्ट्वा मृदा स-[Page0998-a+ 38] होखां करोत्यावृता”
९ सू॰।
“उखाखण्डमेकमुखायांप्रक्षिप्तम् द्वितीयमुपशयया सह--पिष्ट्वा, आवृता मन्त्रमर्जम्,आवृच्छब्देन क्रियामात्रमुच्यते तथा चोक्तम् (
६ ,
६ ,
४ ,
२ ) एतयैवावृतानुपहरन् यजुरिति” क॰।
“आवृतामन्त्ररहितेतिकर्त्तव्यतया” संग्र॰।
“पक्वायामावपति कपालंच
१० सू॰।
“पक्वायामुखायाम् अग्निं कपालं च” क॰।
“उखोपशये पिष्ट्वा संसृज्य निदधाति”
११ सू॰।
“उखा-कपालमुपशयां च पिष्ट्वा संसृज्य स्थापयति” क॰। ( इदानीं चयनप्रकारमाह। अभ्यात्मं चयनमुपविश्य”
१२ सू॰।
“आत्मनआभिमुख्येन चयनं कर्तव्यम् न परा-गिति, तथा च नैरृतीषु वचनात्पराक्चयनमुक्तम् (
७ ,
२ ,
१ ,
१३ )। अपरो विशेषः”
“सव्यबाहुमन्तरं कृत्वोत्तर-लक्षणाभिरिष्टकाभिः”
१३ सू॰”।
“चेतव्यः” क॰।
“नित्येसादनसूददोहसाउपधानादुत्तरे तया देवतया ता अ-स्येति (
१२ ,
५३ ,
५५ ,)
१४ सू॰।
“सर्वास्विष्टकासु एतेनित्ये भवतः तया देवतयेति सादनम् ता अस्येति सूद-दोहसाधिवदनम्” क॰।
“अविशेषोपदेशात्”
१५ सू॰।
“अविशेषेण ह्यनारभ्य कञ्चिदिष्टकाविशेषमेते श्रूयेते” क॰।
“विशेषमनुपादाय सामान्येन तयोरुपदेशात् विधा-नात्” संग्र॰।
“अनाम्नातप्रतिषेधाच्च”
१६ सू॰।
“यत्रनैरृत्यादिषु नाम्नायेते नित्ये संहितायां न पठ्येते तत्रा-पि प्रतिषेधः श्रूयते (
७ ,
१ ,
१ ,
१४ ) सादनसूददोहसाधि-वदतीति”
“अतः प्रतिषेधात् सर्वत्राप्येते भवतः” संग्र॰।
“एकनोदनास्वेकदेशासु तन्त्रेण”
१७ सू॰। एकनोदनाअपस्या वपस्या इत्येवमादि, एकनोदना अपि यद्येकदेशाभवन्ति, यथा तासामेव देशभेदः अपस्याः पञ्चपञ्चानूकान्ते-ष्विति (
१७ ,
६ ,
२ ) अतश्च प्रत्यनूकं नित्ये, देशभेदे त्वसतितन्त्रेणेति” क॰।
“एकनोदना एकं विधिवाक्यं यासांताः। एको देश एकमुपधानस्थानं यासां ताः तत्रतन्त्रेण नित्ये भवतः” संग्र॰।
“आत्मनि यजुष्मतीः”
१८ सू॰।
“इष्टका उपदधाति न पक्षपुच्छयोः” क॰(
८ ,
७ ,
२ ,
३ )। लोकम्पृणासु दशसु दशसु मन्त्रो लोकंपृणेति (
१२ ,
५४ )। (
९ ,
१ ,
२१
२ )
१९ सू॰।
“आसा-दनं च”
२० सू॰। लोकं पृणानाम्, सूददोहसाघिवदनंतु भवति अप्रतिषिद्धत्वात्” क॰।
“प्रतिचिति द्वे--द्वे उप-धाय”
२१ सू॰। लोकं पृणामन्त्रवचनम्, पुनर्दशसु--दशसु।
“प्रथमं द्वे--द्वे उपधाय तती दश--दशोपदध्यात्” संग्र॰।
“अयुग्मगणमध्यमानूके”
२२ सू॰। अयुग्मो य इष्टकागणो[Page0998-b+ 38] यथा वालखिल्याः सप्त तासां मध्यमानूके उपधेये” क॰।
“त्रिपञ्चसप्रादिगणः” संग्र॰।
“एका च”
२३ सू॰।
“या चैकेष्टका साप्यनूक एव, यथा विश्वज्योतिर्द्वियजु-श्चेत्येवमादि” क॰।
“अभितोयुग्माः”
२४ सू॰।
“अनूकमभि-तोऽर्धार्धिकया युग्मा उपधीयन्ते” क॰।
“उदञ्चो वर्गाःपूर्वापरे”
२५ सू॰।
“यत्र पूर्वापरैति देशव्यपदेशःतत्रोदग्लक्षणा इष्टकावर्गा उपधीयन्ते” क॰।
“ति-र्यगमूकमभितोऽक्ष्णयावधिके पूर्वापरे देशे इष्टकानां वर्गाःसमूहाः उदग्लक्षणा उपधेयाः” संग्र॰।
“प्राञ्चोदक्षिणोत्तरे”
२६ सू॰।
“यत्र तु दक्षिणोत्तरव्यपदेशःतत्र प्राग्लक्षणा इति” क॰।
“प्रागनूकभितोऽक्ष्णाया-वधिके दक्षिणोत्तरे प्राञ्चः प्राग्लक्षणाः उपधेयाः” संग्र॰।
“भिन्नकृष्णयोरचयनम्” (
८ ,
७ ,
२ ,
१६ )
२७ सू॰।
“दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम्”
२८ सू॰।
“कर्त्तव्यम्” क॰।
“उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परि-लिखति”
२९ सू॰।
“मण्डलमिति शेषः” क॰।
“मण्ड-लाद्वा प्रक्रमणमन्तःपात्यस्य”
३० सू॰।
“पूर्वार्धाद्व्यामस्यत्रीन् प्राचः प्रक्रमान् प्रक्रामतीति वचनात् (
१० ,
२ ,
३ ,
१ )।
“पूर्वार्धादेव व्यामस्य प्रक्रमणम् न स्तम्भाद्धि प्रक्रमणमनग्नौचरितार्थम” क॰।
“वावधारण, मण्डलादेवान्तःपात्यस्यक्रमणम् न पूर्वार्द्धात् स्तम्भात्” संग्र॰।
“पश्चाद्यूपावट्या-त्पादमात्रे चित्यस्य”
३१ सू॰। यूपावटे भवः शङ्कुर्यू-पानट्यः तस्मात्पश्चात् पद्यालोकमात्रे चित्यस्याग्निक्षेत्रस्यस्थानं भवति” संग्र॰।
“यजमानेनोर्ध्वबाहुप्रपदोच्छ्रि-तेन समस्थितेन वा”
३२ सू॰। (
१० ,
२ ,
२ ,
६ )।
“प्रपदोच्छ्रितः पादाग्रे व्यवस्थितः समस्थितः प्रसिद्धएव, तत्क्रियायानोदितत्वात्प्रक्रमणवदध्वर्युर्मा भूदितियजमानग्रहणम्” क॰।
७ कण्डिका।
“द्विपुरुषां रज्ज्वुंमित्त्वा”
१ सू॰।
“द्विपुरुषांरज्ज्वुंभित्त्वेतिनिगदे व्याख्यातम्”।
“उभयतःपाशाम्”
२ सू॰।
“मध्येलक्षणम्”
३ सू॰।
“अभितोऽर्धपुरुषयोश्च”
४ सू॰।
“मध्य-मात्लक्षणात् पुरुषपञ्चमे” संग्र॰
“अर्धे च”
६ सू॰।
“पुरुष-पञ्चमस्यार्धे” क॰।
“अनुपृष्ट्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च”
७ सू॰।
“पाशाउन्मुच्यार्धपुरुषीययोःप्रतिमुच्य दक्षिणायाम्य मध्यमे नितोदं करोति”
८ सू॰।
“गर्तम्” संग्र॰
“उन्मुच्य पाशावेकं मध्यमे प्रतिमुच्यदक्षिणाधिनितोदमायम्य मध्यमे शङ्कुः”
९ सू॰।
“तस्मिन्पाशं प्रतिमुच्य पूर्वार्धे च दक्षिणायम्य मध्यमे शङ्कुः” [Page0999-a+ 38]
१० सू॰।
“पश्चादर्धपुरुषे च”
११ सू॰।
“उन्मुच्यपूर्वार्द्धात् पश्चार्धे प्रतिमुच्य दक्षिणायम्य मध्यमे शङ्कुः”
१२ सू॰।
“अभितोऽर्धपुरुषयोश्च”
१३ सू॰।
“एव-मुत्तरोऽन्तः”
१४ सू॰।
“दक्षिणे पार्श्वे पूर्ववदाथम्यपञ्चमभागीये शङ्कुः”
१५ सू॰।
“तस्मिन् पाशं प्रतिमुच्यपूर्वे चार्धपुरुषीये पञ्चमभागीयार्धपुरुषीययोः सन्निपात्यतस्मिञ्छङ्कुः”
१६ सू॰।
“एवं पश्चात्”
१७ सू॰।
“एव-मुत्तरः पक्षः”
१८ सू॰।
“तथा पुच्छं वितस्त्या”
१९ सू॰। इच्छन् पक्षपुच्छाप्ययेषु चतुरङ्गुलंचतुरङ्गुलं संकर्षति विकर्ष-न्यन्ते”
२० सू॰।
“यत्र पक्ष आत्मानमप्येति स पक्षाप्ययः एवंपुच्छाप्ययः। अप्ययेषुपक्षयोः पुच्छस्य च आत्मसम्बन्धिसमीपेचतुरङ्गुलं चत्वारि--चत्वार्यङ्गुलान्युभयोः पार्श्वयोः सङ्कर्षतिसङ्कोचयति, तथा अन्ते पक्षपुच्छप्रान्ते उभयोः पार्श्वयोःचतुरङ्गुलं विकर्षति विस्तारयति” संग्र॰।
“पञ्चारत्निः-पुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः सम-विभक्तस्य”
२१ सू॰।
“पञ्चारत्नयोः यस्य सः पञ्चभिर-रत्निभिः पुरुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैःपदम् इत्येवमर्थो न भबति इतः प्रागरत्न्यादीनां लक्ष-णस्यानुक्तत्वेनासिद्धत्वात्, अतश्चैवम् पुरुषस्य समविभक्तस्ययः पञ्चमो भागः सोऽरत्निः तस्य दशमो भागः पदम्,पदस्य द्वादशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमःइति तु भवति पदस्य सिद्धत्वात्” क॰।
“परितत्य रज्ज्वासहितं बहीरज्ज्वेकषष्टे शते परिश्रितो मिनोति”
२२ सू॰।
“रज्ज्वा परितत्य सर्व्वतोवेष्टयित्वा रज्वाबहिर्भागेसहितं रज्जुसंलग्नं यथा भवति तथा एकषष्ट्यधिके द्वेशते परिमिनोति”
“क॰
“चतुर्णवतानि वा त्रीणि”
२३ सू॰। चतुर्ण्णवत्यधिकानि त्रीणि शतानि” क॰।
“ऊर्ध्वाः शर्कराः खाते”
२४ सू॰।
“उत्तरेषु पुरुषीये-णैकशतविधात्”
२५ सू॰।
“उत्तरेषु अष्टविधादिषुचयनेषु आ एकशतविधात् एकशतविधचयनं यावत्एकाधिकशतपुरुषात्मकपञ्चनवतितमचयनपर्य्यन्तम् पुरुषोयेणएकैकपुरुषवृद्ध्या अग्निमान भवति तस्मादु सप्तविधमेवप्रथमं विदधीतेति” (
१० ,
२ ,
३ ,
१८ ) क॰
“यथाग्निवेदीष्ट-काप्रमाणम्”
२६ सू॰। वेदिश्च इष्टकाश्च वेदीष्टकाः तासांप्रमाणं वेदीष्टकाप्रमाणम् तद्यथाग्नि भवति, अग्निमानमन-तिक्रम्प यथाग्नि, यथाग्निक्षेत्रस्य प्रमाणं वर्द्धते तथा वेदि-प्रमाणं वर्धते इष्टकाप्रमाणं च वर्द्धते, न हि वेदिवृद्धिंविना तन्मध्ये वर्धितस्याग्नेर्मानं सम्भवति, नापि इष्टका न[Page0999-b+ 38] बर्धिता वर्धितमग्निक्षेत्रं पूरयितुं शक्रुवन्ति, अतीयुक्तमुभयोर्वृद्धिः” क॰।
“अन्तःपात्यगार्हपत्ययोरिच्छन्”
२७ सू॰।
“पूर्वार्धाद्यामस्य त्रीन् प्राचः स वेद्यन्तः प्रक्रमःप्रक्रमति” (
१० ,
२ ,
३ ,
१ ) यः प्रक्रमत्रयपरिमितो देशःसोऽन्तःपात्य उच्यते, तस्यान्तःपात्यस्य गार्हपत्यस्य गार्ह-पत्यचितेश्च इच्छन् इच्छया वृद्धिंकुर्य्यात् इच्छया नकुर्य्यात् तद्धैकौत्तरा” श्रुतेः (
१०
२ ,
३ ,
६ ) क॰।
“उत्तर-पक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रींनाभिमात्रीं मुखमात्रीमिति”
२८ सू॰।
“अग्नेरुत्तरप-क्षस्यापरस्रक्त्यां पश्चिमकोणे एवम्प्रमाणास्तिस्रः परिश्रितोमिनोति” क॰। अत्रसर्व्वत्र चतुरङ्कैः शतपथब्राह्मणा-ध्यायादि बोध्यम्। त्रिभिः कातीयश्रौतसूत्राध्यायादिद्वाभ्यां शुक्लयजुर्वेदाध्यायादि तेन तत्तत्स्थाने अत्रोक्तप्रती-कयुक्तमन्त्रमूलवाक्यादिकं दृश्यमिति सङ्केतज्ञापनम्। विस्त-रस्तु शतपथब्राह्मणे लिखिताङ्क सूचिताध्यायादौ दृश्यः।
