सामग्री पर जाएँ

इष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

इष्टम्, क्ली, (इज्यते इष्यते वा यज इष वा + भावे क्त ।) यज्ञादिकर्म्म । (यथा, हेमचन्द्रः । “अग्निहोत्रं तपः सत्यं वेदानां चार्थपालनम् । आतिथ्यं वैश्यदेवञ्च इष्टमित्यभिधीयते” ॥) यथेप्सितं । कामं । इत्यमरः ॥ संस्कारः । इति मेदिनी ॥

इष्टम्, त्रि, (इष्यते इज्यते वा यत् तत् । इष यज वा + कर्म्मणि क्त ।) आशंसितम् । वाञ्छित्वम् । पूजितम् । प्रियं । इति मेदिनी ॥ (यथा, महा- भारते । “उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः” । मनुः । ४ । २२९ । “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्” ।)

"https://sa.wiktionary.org/w/index.php?title=इष्टम्&oldid=116910" इत्यस्माद् प्रतिप्राप्तम्