इष्टवत्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टवत्¦ न॰ यज--इष वा क्तवतु स्त्रियां ङीप्।
१ यजनकर्त्तरि
२ इच्छायुक्ते च।
“इष्टं वेदाध्ययनादिः साध्यतयाऽस्त्यस्यमतुप् मस्य वः।
३ इष्टकर्म्म कर्त्तरि। वेदे तु पूर्ब्बपददीर्घःइष्टावान्
“इष्टावन्तोरातिषाचोदधानाः” अथ॰
१८ ,
३ ,[Page1000-a+ 38]
२० ।
“इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च। अग्नि-ष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान्” व्यासोक्ते
४ इष्ट्यादिकारिणि त्रि॰। स्त्रियां ङीप्।
