इष्टापूर्त्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टापूर्त्तम्, क्ली, (इष्टञ्च पूर्त्तञ्च द्वयोः समाहारः ।) यज्ञखातादिकर्म्म । इति हेमचन्द्रः ॥ यथा । “अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् । आतिथ्यं वैश्वदेवञ्च इष्टमित्यभिधीयते ॥ वापीकूपतडागादिदेवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते” ॥ इति मलमासतत्त्वधृतजातूकर्णः ॥ (यथा, मार्क- ण्डेयपुराणे १८ । ६ । “इष्टापूर्त्तविनाशाय तद्राज्ञश्चौरधर्म्मिणः” ॥ तथा च महाभारते । ३ । ३२ । ३० । “इष्टापूर्त्तफलं न स्यात् न शिष्यो न गुरुर्भवेत्” ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टापूर्त्त¦ न॰ इष्टं च पूर्त्तञ्च द्वयोः समाहारः पूर्वपद-दीर्घः। इष्टशब्दोक्ते अग्निहोत्रादौ
“वापीकूपतडागादिदेवतायतनानि च। अन्नप्रदानमारामः पूर्त्तमित्यभिधी-यते” इति मनूक्ते पूर्त्ते च।
“वितथन्तु वदेयुर्य्ये धर्मंप्रह्लाद पृच्छते। इष्टापूर्त्तञ्च ते घ्नन्ति सप्त सप्तपरावरान्” मा॰ स॰
६६ अ॰।
“इष्टापूर्त्तेन च तथा वक्तव्यमनृतंन तु” आ॰ प॰
१९
५ अ॰।
“इष्टापूर्त्तफलं न स्यान्न शिष्योनगुरुर्भवेत्” भा॰ व॰
३२ अ॰। क्वचित् इतरेतरद्वन्द्वोऽपिद्वि॰ ब॰।
“ईष्टापूर्त्ते संसृजेथामयञ्च” यजु॰
१० ,
५४ । [Page1000-b+ 38]
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टापूर्त्त¦ n. (-र्त्तं) Any relegious duty, as oblation, sacrifice, penance, holy study, digging a well, planting a tree, &c. E. इष्ट a sacrifice, and पूर्त्त liberal act, religiously considered; आङ् prefixed to the latter. [Page110-b+ 55]