इष्टापूर्त्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टापूर्त्तम्, क्ली, (इष्टञ्च पूर्त्तञ्च द्वयोः समाहारः ।) यज्ञखातादिकर्म्म । इति हेमचन्द्रः ॥ यथा । “अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम् । आतिथ्यं वैश्वदेवञ्च इष्टमित्यभिधीयते ॥ वापीकूपतडागादिदेवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते” ॥ इति मलमासतत्त्वधृतजातूकर्णः ॥ (यथा, मार्क- ण्डेयपुराणे १८ । ६ । “इष्टापूर्त्तविनाशाय तद्राज्ञश्चौरधर्म्मिणः” ॥ तथा च महाभारते । ३ । ३२ । ३० । “इष्टापूर्त्तफलं न स्यात् न शिष्यो न गुरुर्भवेत्” ।)
