इष्ट्ययन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्ट्ययन¦ न॰ इष्ट्यायनं गमनं यत्र।
“यागविशेषाचरणभेदे” इष्ट्ययनञ्च आश्व॰ श्रौ॰
२ ,
१४ , सूत्रादौ दर्शितं यथा
“अत ऊर्द्ध्वमिष्ट्ययनानि”
१ ।
“अत ऊर्द्ध्वं यानि वक्ष्यन्तेऽस्मिन्अध्याये तानि इष्ट्ययनसं ज्ञानीति विद्यात्। इष्टिभिरयनंगमनं येषु कर्मसु तानीष्ट्ययनानि” नारा॰ वृ॰।
“सांवत्सरि-काणि”
२ सू॰।
“संवत्सरेण क्रियन्ते संवत्सरैश्च क्रियन्त इत्युभ-यथा विग्रहः कर्तव्यः, दाक्षायणयज्ञचातुर्मास्यानामनेकसां-वत्सरिकत्वसिद्ध्यर्थम् वृ॰।
“तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यांवा प्रयोगः”
३ सू॰।
“फल्मुनीर्भिर्युक्ता पौर्णमासी फाल्गुनी,चित्रया युक्ता चैत्री। तेषां सांवत्सरिकाणां आगन्तुका-नामस्मिन् काले प्रारम्भः कार्यः। दर्शपूर्णमासगुणविकार-रूपाणां दाक्षायणयज्ञादीनामारम्भे कालनियमो नास्तीतितेषामित्युच्यते” नारा॰ वृ॰।
“तुरायणम्”
४ सू॰।
“तुरायणंनामेष्ट्ययनमुच्यते” वृ॰।
“अग्निरिन्द्रो विश्वेदेवा इति पृथ-गिष्टयोऽनुसवनमहरहः”
५ सू॰।
“अग्निदेवत्या इन्द्रदेवत्याविश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु सवनेषु यथासङ्ख्येनएकैकेष्टिः कार्याऽहन्यहनि। अहरहरिति वचनं पौर्ण-मास्यमावास्ययोर्बाधनार्थम्” वृ॰।
“एका वा त्रिहविः”
६ सू॰
“एताभिरेव देवतामिर्युक्ता एकैवेष्टिस्त्रिहविष्काऽह-न्यहनि प्रातः सवन एव कर्त्तव्या वेत्यर्थः” वृ॰।
“इडाद-धोनामेष्ट्ययनं तत्र देवतादि
२
१४
१ --
१० ” द्यावापृथि-व्योरयनं नामेष्ट्ययनं तत्र देवताइ
२ ,
१४ ,
१२ ,
१५ ”
“चातुर्मस्यानि इष्ट्ययनानि तद्देवतादि
२ ,
१५ ,
१ सूत्रादौ। एवमन्यान्यपि इष्ट्ययनकर्म्माणि आकरे दृश्यानि
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्ट्ययन/ इष्ट्य्-अयन n. a sacrifice lasting a long time A1s3vS3r.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्ट्ययन न.
चातुर्मास्य, तुरायण एवं अन्य सदृश कृत्यों वाले कृत्यों के वर्ग से युक्त सत्र, आश्व.श्रौ.सू. 2.14.1 (इष्टिभिरयनं गमनं येषु कर्मसु, भाष्य)।
