उग्रतारा

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रतारा, स्त्री, (उग्रादपि भयात् भक्तान् त्राति तारयति वा या ॥ उग्र + तॄ + णिच् + अच् + टाप् । यथा, निरुक्तौ । “उग्रादपि भयात् त्राति यस्मात् भक्तान् सदा- म्बिका” ।) देवीविशेषः । अस्या उत्पत्त्यादि यथा, -- “सर्व्वेषामेव देवानां यज्ञभागानपाहरत् । स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं तथा गतौ ॥ सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् । गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥ अनेकसंस्तुता देवी तदा सर्व्वामरोत्करः । मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥ युष्माभिरमरैरत्र स्तूयते का च भाविनी । किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥ एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः । समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥ शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् । तस्मात्तयोर्बधायाहं स्तूयेऽद्य सकलैः सुरैः ॥ विनिःसृताया देव्यास्तु मातङ्ग्याः कायतस्तदा । भिन्नाञ्जननिभा कृष्णा साभूद्गौरी क्षणादपि ॥ कालिकाख्याभवत् सापि हिमाचलकृताश्रया । तामुग्रतारामृषयो वदन्तीह मनीषिणः ॥ उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका । एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च” ॥ * ॥ “एषैवैकजटाख्यातिर्यस्मात्तस्या जटाधिका । शृणु त्वं चिन्तनं चास्याः सम्यक् वेतालभैरवौ ॥ यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् । महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः । तपोबलं मुनिं दान्तं म्लेच्छवद्वेदपारगभ् ॥ तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्मधृक् । एतत्तु कामरूपाख्यं म्लेच्छैर्गुप्त्रं भवद्बलं ॥ स्वयं विष्णुर्न चायाति यावत् कालमिदं पुनः । विरलाश्चागमाः सन्तु यत्र तत्प्रतिपादकाः ॥ विरलं यस्तु जानाति कामरूपागमं बुधः । स एव प्राप्तकालेऽपि पूर्ब्बं फलमवाप्स्यति ॥ एवमुक्त्वा वशिष्ठस्तु तत्रैवान्तरधीयत । ते गणाः म्लेच्छतां याताः कामरूपे सुरालये ॥ वामाऽभूदुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत्” । इति च कालिकापुराणे ८३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रतारा¦ स्त्री उग्रादपि भयात् तारयति भक्तान् तॄ--णिच्-अच्

५ त॰। तारारूपायां देव्याम्।
“तारकत्वात्सदा तारा महामोक्षप्रदाविनी। उग्रापत्तारिणीयस्मादुग्रतारा प्रकीर्त्तितैति तन्त्रोक्ताऽस्य वा निरुक्तिः। तदाविर्भावः कालिकापु॰

८१ अ॰
“विनिःसृतायांदेव्यास्तु मातङ्ग्याः कायतस्तदा। भिन्नाञ्जननिभा कृष्णासाऽभूद्गौरी क्षणादपि। कालिकाख्याऽभवत् सापि हिमा-चलकृताश्रया। तामुग्रतारामृयषो वदन्तीह मनीषिणः। उग्रादपि भयाद्रक्षेत् यस्मात् भक्तान् सदाम्बिका। एषेवै-कजटाख्यातिं यस्मात्तस्या जटैकिका। शृणृतं चिन्तनंचास्याः सम्यक् वेतालभैरवौ!। यथा ध्यात्वा महादेवींभक्तः प्राप्तोत्यभीप्सितम्। चतुर्भुजां कृष्णवर्णां मुण्डमा-लाविभूषिताम्। खडगं दक्षिणपाणिभ्यां बिभ्रतीन्द्रवरंत्वधः। कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम्। खं लिखन्तीं जटामेकां विभ्रतीं शिरसा स्वयम्। मुण्डमा-लाधरां शीर्षे ग्रीवायामपि सर्व्वदा। वक्षसा नागहारन्तुपिभ्रतीं रक्तलोचनाम्। कृष्णवस्त्रधरां कट्यां व्याघ्राजिनस-मन्विताम्। वामपादं शवहृदि संस्थाप्य दक्षिणं पदम्। विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम्। साट्टहास[Page1056-b+ 38] महाघोरारावयुक्तातिभीषणा। चिन्त्योग्रताराः कततंभक्तिमद्भिः सुखेप्सुभिः” अन्यत्र च
“रूपं शृणु नरश्रेष्ठ!येन ध्येया सदा शिवा। कृष्णा लम्बोदरी दीर्घा विरला रक्त-दन्तिका। चतुर्भुजा कृशाङ्गी तु दक्षे कर्तृकखर्परौ। खड्ग चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः। वामपादंशवस्योर्व्वोर्निधायोत्थाप्य दक्षिणम्। शवस्य हृदये न्यस्यसाट्टहासं प्रकुर्व्वती। नागहारशिरोमालाभूषिताकामदा परा”। अस्यारूपविषये बहुविप्रतिपत्तिरस्ती-त्यतस्तन्निरूपणं तावत् क्रियतेराघवकृते पञ्चकल्पतरौ मन्दारवृक्षप्रकरणे श्रीशङ्कराचार्य्यकृतैतदीयमूर्त्तिप्रकाशकस्तोत्रं यथा।
“ज्वलत्पाबक-ज्वालयोज्ज्वालभास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वाम्। शवं वामपादेन कण्ठे निपीड्य स्थितां दक्षिणेनाङ्घ्रिणोरूनिपीड्य। वृहद्भीमलम्बोदरीं मेघवर्ण्णां समुत्तुङ्गपीनस्तनाभोगरम्याम्। जवारागरागप्रवृत्तत्रिनेत्रां ललज्जि-ह्वया दंष्ट्रया भीषणास्याम्। लसद्द्वीपिचर्म्मावृताङ्गींनितम्बे जटाजूटमध्यस्थितेन्दीवरालीम्। शिरोदेशभा-स्वत्पिशङ्गाभसर्पां जटाजूटमध्यस्थिताक्षोभ्यमूर्तिम्। मिथःकेशबन्धात् शिरश्छिन्नसद्योगलच्छोणितां मानवीं मुण्डमा-लाम्। दधानां च पञ्चाशदाख्यानसंख्याम् अतश्छिन्नमु-ण्डालिसंनामिताङ्गीम्। समाच्छिन्नमांसोत्करामूर्द्धदक्षे स्फुर-त्पाणिना धारयन्तीं महासीम्। करे वाम ईषत्स्फुर-द्रक्तनालं लसन्नीलपङ्केरुहं धारयन्तीम्। करे सव्य उच्चै-रधस्ताद्दधानां शितां कर्त्तृकां वामपाणौ कपालम्। जगद्वर्त्तिसंसारसंजातजाड्यं स्वतः कर्त्तृकाधारया खण्ड-यन्तीम्। विचित्रास्थिमालं करालं कपालं ललाटे चपञ्चान्वितं धारयन्तीम्”। इति तत्रैव मन्त्रप्रदीपे
“महा-ष्टासिद्धिप्रकटाहिभूषणाम् इत्यनेन अष्टनागानामष्टसिद्धिरूप-त्वोक्त्या तेषां भूषणविशेषरूतया यथा स्थितिस्तथा तत्रैवदर्शितं यथा।
“जटास्वनन्तः श्रवसोश्च तक्षको महादि-पद्मो हृदि हारभूषणम्। तथैव कर्कोटकृतोपवीतकम् समेखलायामथ देवि! वासुकिः। स शङ्खपालः किल कङ्क-णोद्गतः करेषु, पद्मः पदयुक्समाश्रयः। भुजेषु नागः कुलि-कोऽङ्गदे मतः” इति
“तेषां वर्ण्णा अपि क्रमशोदर्शिताःसितोऽथ रक्तीधवलश्च मेचकः तथैव पोतोऽप्यसिप्तश्च पाटलः। भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वेषु नरेषुसन्ति ताः”। ततश्चायं निर्गलितार्थः। अभ्रं लिहपिशङ्कैकजटा जवाकुसुम-सङ्काशतक्षकनागकृतकुण्डला शुभ्रशेषनागकृतहारा दूर्व्वा-[Page1057-a+ 38] दलश्यामनागकृतयज्ञोपवीता नीलवर्ण्णा लम्वोदरी खर्वाचतुर्भुजा तत्र उपरि दक्षिणे सरक्तमांसखण्डमण्डितमुष्टि-निविष्टजटाजूटसंलग्नोग्रखड्गविभूषितकरा उपरि वामेरक्तनालकिञ्चिद्विकस्वरनीलोत्पलकरा अधस्तात् दक्षिणेवीजभूषितकर्त्तृकालङ्क्रतकरा अधस्तात् वामे त्रिजगज्जाड्य-खण्डककपालमण्डितकरा भुजचतुष्टये धूम्राभनागकृतके-यूरा कनकाभनागकृतकङ्कणा शवारूढा प्रत्यालीढस्थाना-धिष्ठिता निर्भरयन्त्रणाप्रायेण शवहृदयस्थितदक्षिणचरणाशवोरुद्वयस्थितप्रासारितवामपादा कुन्दाभनागकृतकटीसूत्रापाटलनागकृतनुपूरालङ्कृता सद्यश्छिन्नगलद्रधिरान्योन्यकेश-ग्रथितपादपद्म प्रलम्बित--पञ्चाशत्तमनृमुण्डमाला ज्वल-दनलचितामध्यस्थिता द्वीपिचर्म्मालङ्कृतकृष्णवस्त्रा योषि-दखिलालङ्कारभूषिता मौलावक्षोभ्यरूपनागभूषिता पञ्च-संख्यान्वितकपालमालाभूषितललाटा ललज्जिह्वा वृहद्दंष्ट्राइत्येवं रूपा। अत्र प्रमाणवाक्ययोः शवहृदयस्थत्वे वामद-क्षिणपादयोर्विकल्पैत्यतोमूर्त्तिद्वयमित्यन्ये। प्रत्यीलाढपदा-ङ्घिशवहृदित्युक्तेः आलोढं दक्षिणं पादं प्रत्यालीढं तुवामकमित्युक्तेः आलीढशब्दे दर्शितवाक्याच्च प्रत्यालीढ-शब्दस्य आलीढविपर्य्ययरूपत्वात् वामचरणस्यैव शव-हृदयस्थितिरिति तु न्याय्यम्।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रतारा/ उग्र--तारा f. N. of a goddess , Ka1lika1P.

"https://sa.wiktionary.org/w/index.php?title=उग्रतारा&oldid=492115" इत्यस्माद् प्रतिप्राप्तम्