उच्चम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चम्, त्रि, (उच्चिनोतीति । चिञ चित्यां अन्येभ्योऽपि इति डः । उच्चैस्त्वमस्ति अत्र वा । अर्श आद्यच्, अव्ययानामिति टिलोपः ।) उपरि । उ~चु इति भाषा । तत्पर्य्यायः । प्रांशु २ उन्नतम् ३ उदग्रम् ४ उच्छ्रितम् ५ तुङ्गम् ६ । इत्यमरः ॥ उत्तुङ्गं ७ । इति तट्टीका ॥ (यथा, रघुः ३ । १३ । “ग्रहैन्ततः पञ्चभिरुच्चसंश्रयैः, असूर्य्यगैः सूचितभाग्यसम्पदम्” ।) (ज्योतिषोक्तं ग्रहाणामुच्चस्थानम् । यथा, “अजवृषभमृगाङ्गनाकुलीराः झषबणिजौ च दिवाकरादितुङ्गाः । दशशिखिमनुयुक्तिथीन्द्रियांशै- स्त्रिणवकविंशतिभिश्च तेऽप्यनीचाः” ॥ सूर्य्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा- पेक्षया सप्तमस्थानानि च नीचानि, तत्रोच्चेष्वपि दशमादयो राशित्रिंशाशाः यथाक्रमं उच्चेषु पर- मोच्चा नीचेषु परमनीचा भवन्तीति ॥)

"https://sa.wiktionary.org/w/index.php?title=उच्चम्&oldid=492139" इत्यस्माद् प्रतिप्राप्तम्