उच्चाटन

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटनम्, क्ली, (उत् + चट् + णिच् + ल्यट् ।) उत्- खातम् । उचाटन इति माषा । षट्कर्म्मान्तर्गता- भिचारकर्म्मविशेषः । अस्य देवता दुर्गा । तिथिः कृष्णा चतुर्द्दशी अष्टमी च । वारः शनिः । जप- माला साध्यस्य केशसूत्रग्रथिततुरङ्गदशनोद्भवा । फलम् । उच्चाटनं स्वदेशादेर्भ्रंशनं परकीर्त्तितम् ॥ इति शारदातन्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटन¦ न॰ उद्--चट्--णिच्--ल्युट्।

१ उत्पाटने स्वस्थानात्

२ विश्लेषणे
“उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम्” इति शा॰ ति॰ उक्ते

३ षट्कर्म्मान्तर्गतेऽभिचारभेदे च। उच्चाट्यतेऽनेन करणे ल्युट्। तन्त्रोक्ते

४ तत्साधनकर्म्मणि। तन्त्रसारे वगलाया अभिचारप्रयोगे कुण्डलक्षण-मुपक्रम्य
“वश्ये तु चतुरस्रं चाकर्षणे तु त्रिकोणकम्। तथै-वोच्चाटने प्रोक्तं षट्कोणे मारणं स्मृतम्। वश्ये मेषासनंश्रेष्ठं कर्षणं व्याघ्रचर्म्मणि। शान्तौ मृगासनं प्रोक्तं स्तम्भोगोचर्म्मणि स्मृतः। उष्ट्रासनं तथोच्चाटे विद्वेपे तुरगा-[Page1062-a+ 38] सनम्” मारणे महिषीचर्म्म मोह च गजासनम्। मधु-लाजतिलादीनि वश्यशान्तिकराणि च। आकर्षणे तथालोध्रं सतिलं मधुरान्वितम्। निम्बपत्रञ्च तैलाक्तं विद्वेष-करणं परम्। हरितालं हरिद्रा च लवणेन च संयुता। स्तम्भयेत्तत्र देविशि! प्रज्ञाञ्चैव गतिं मतिम्। वाजिना-थस्य सारेण रुधिरेण च होमयेत्। मारणे तु रिपोर्देवि!श्मशानाग्नौ हुनेन्निशि। क्षुद्राणां काकपक्षाणां गृहधूमेनसंयुतम्। लाजान् त्रिमधुरोपेतान् सर्वरोगप्रशान्तये” तन्त्र-सा॰ उच्चाटनप्रकारा बहवोदर्शितास्तत्र सामान्यप्रकारस्त-त्राभिधीयते निबन्धे
“शान्तिवश्यस्तम्भनानि विद्वेषोच्चा-टने ततः। मारणं तानि शंसन्ति षट् कर्माणि मनीषिणः। रतिर्व्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात्। षट्कर्म्मदेवताः प्रोक्ताः तस्मादेताः प्रपूजयेत्। ईश-चन्द्रेन्दुनिरृतिवाय्वग्नीनां दिशोमताः। सूर्य्योदयं समा-रभ्य घटिकादशकं क्रमात्। ऋतवः स्युर्व्वसन्ताद्या अहो-रात्रे दिनेदिने। वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः। जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः। स्तम्भनेपृथिवी शस्ता विद्वेषे व्योम कीर्त्ति तम्। उच्चाटने स्मृतोवायुर्भौमाग्निर्म्मारणे मतः। तत्तद्भूतोदये सम्यक् तत्तन्मण्ड-लसंयुतम्। तत्तत् कर्म्म प्रकर्त्तव्यं मन्त्रिणा निश्चिता-त्मना। शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम्। वर्ण्णाःस्युर्मन्त्रवीजानि षट्कर्मसु यथाक्रमम्। ग्रथनञ्च विदर्भश्चसंपुटो रोघनं तथा। योगः पल्लव इत्येते विन्यासाःषट्सु कर्मसु। मन्त्रान्ते विहतान् कृत्वा साध्यवर्ण्णान्यथाविधि। ग्रथनं तत् विजानीयात् प्रशस्तं शान्ति-कर्मणि। मन्त्रार्ण्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत्। विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्मणि। आदावन्तेच मन्त्रः स्यान्नाम्नोऽसौ सम्पुटः स्मृतः। एष स्यात् स्तम्भ-ने शस्त इत्युक्तो मन्त्रवेदिभिः। नाम्न आद्यन्तमध्येषुमन्त्रः स्याद्रोधनं स्मृतम्। विद्वेषणविधाने तु प्रशस्तमिद-मुत्तमम्। मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः। अन्ते नाम्नो भवेन्मन्त्रः पल्लवोमारणे मतः”। भूता{??}मु-दयः शा॰ चि॰।
“दण्डाकारा गतिर्भूमेः, पुटयोरुभयोरधः। तोयस्य, पावकस्योर्द्धगतिस्तिर्य्यङ्नभस्वतः। गतिर्व्व्योम्नो-भवेन्मध्ये भूतानामुदयः स्मृतः। धरणेरुदये कुर्य्यात्स्तम्भनं वश्यमात्मवित्। शान्तिकं पौष्टिकं कर्म तोयस्य,तेजसस्तथा। मारणादीनि मरुतोविपक्षोच्चाटनादिकम्। शत्र विद्वेषणं शस्तमुदये च विहायसः”। भूतमण्डला-[Page1062-b+ 38] दिकं तत्रैवावसेयम्। षट्कर्मकरणनिमित्तमाह रुद्रया-मले
“उपस्थिते महाशत्रौ राष्ट्रपीडासु रुग्भये। भूमिवित्तमहोत्पाते भूतभीतिविपत्सु च। मातःपरतरंकर्म्म कलौ शान्तिकरं प्रिये!। मारणं बोहवं स्तम्भं विद्वेष-णमथापि वा। वशीकरकर्म्माणि तथोच्चाटनकर्म्म च। सर्वत्र साधयेन्नाम्ना ततोनान्यत् शुभावहम्। विशेषतःशत्रुसंघरोगोप्रद्रवनाशनम्। शत्रूणां कर्म्मनाशे च तथाशत्रुपराजये। आत्मनो विजये चैव नातःपरतराक्रिया”। घञ्। उच्चाटोऽप्यत्र पु॰।
“उष्ट्रासनंतथोच्चाटे” तन्त्रसारः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटन¦ n. (-नं)
1. Eradicating as a plant.
2. Ruining, (as an individual.)
3. Causing a person's ruin by magical incantations. E. उच्च up, and अटन going.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटनम् [uccāṭanam], 1 Driving away, expulsion, removal from a place; उच्चाटनं त्वमपि लम्भयसे तदेव Kuval.

Separation.

Eradication; तापत्रयोच्चाटनम् Viś. Guṇa. 533; extirpation (of a plant).

A kind of charm or magical incantation.

Working this charm, ruining one's enemy, making a person leave his business by magical spells by making him disgusted with it.-नः N. of one of the five arrows of Kāma.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चाटन/ उच्-चाटन mf( ई)n. ruining (an adversary)

उच्चाटन/ उच्-चाटन m. N. of one of the five arrows of कामVet.

उच्चाटन/ उच्-चाटन n. eradicating (a plant)

उच्चाटन/ उच्-चाटन n. overthrow , upsetting BhP.

उच्चाटन/ उच्-चाटन n. causing (a person) to quit (his occupation by means of magical incantations) Prab. etc.

"https://sa.wiktionary.org/w/index.php?title=उच्चाटन&oldid=492148" इत्यस्माद् पुनः प्राप्तिः