उच्छास
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छास¦ पु॰ उद् + श्वस--घञ्।
१ अन्तर्मुखश्वासे, आख्यायिकायाः
२ परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राण-वायोर्दीर्घगत्या
३ बहिर्गतौ
४ आश्वासे च।
“दीर्वा-ङ्गुलीपर्वोच्छ्वासप्रेक्षणबाहुम्” कात्या॰
“वायोर्मार्गनिरो-धाच्च न गर्भस्थः प्ररोदिति” निश्वासोच्छ्वाससंक्षोभस्वप्नान्गर्भोऽधिगच्छति” तुश्रु॰। उच्छ्वासवहनाडीभेदास्तु तत्रदर्शिताः।
“ऊर्द्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वास-[Page1069-a+ 38] जृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यःशरीरं धारयन्ति
“पीडयन्नरुजोगाढः सोच्छ्वासः शिथि-लः स्मृतः”।
“शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत्। काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्ज्जयेत्” सुश्रु॰।
“सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः” सुश्रु॰। उच्छ्वासश्चदीर्घनिश्वासः स च यावत्कालेन श्वासरूपप्राण-क्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्य्यन्तप्राणवायोर्ब-हिर्गमने भवति।
“उष्णोच्छ्वासं समधिकतरोच्छ्वा-सिना दूरयर्ती” मेघदू॰
“इत्युच्छ्वासोऽमृतं प्राण आदध” कात्या॰
४ ,
८ ,
२९ ।
