उच्छास्त्र
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छास्त्र¦ त्रि॰ उद्गतं शास्त्रात् प्रा॰ स॰।
१ अतिक्रान्तशास्त्रे
२ शास्त्रविरुद्धेऽधर्मकृत्ये च। उत्क्रान्तं शास्त्रं यत्र। शास्तातिक्रमयुक्ते उच्छास्त्रं यया तथा वर्तते उच्छास्त्र-वर्त्तिन् शास्त्रातिक्रमेण यथेष्टचारिणि स्त्रियां ङीप्।
“न राज्ञः प्रतिगृह्णीयात् क्रूरस्योच्छास्त्रवर्त्तिनः। या॰स्मृ॰।
“दृप्तस्योच्छास्त्रवर्त्तिनः” भाग॰
७ स्कन्द॰ अ॰
