उच्छिष्टम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्टम्, त्रि, (उत् शिष्यते यत् । उत् + शिष + क्त ॥) भुक्तावशिष्टम् । इति पुराणम् ॥ ए~टो इति भाषा । तद्भोजनप्रायश्चित्तं यथा (प्रायश्चित्ततत्त्वे चाण्डालाद्यन्नभक्षणप्रायश्चित्तप्रकरणे ।) विष्णुः । “आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणः शूद्रोच्छिष्टाशने च वमनं कृत्वा सप्तरात्रमुपवसेत्” इति । एवं उच्छिष्टे यः पराक उक्तोऽङ्गिरसा सोऽपि प्रागुक्तसकृदापदादिविषये बोध्यः । विष्णु नापि अनुच्छिष्टे पराकोक्तेः । तथाचाङ्गिराः । “चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति” ॥ यत्तु मिताक्षरायामापस्तम्बः । “अन्त्यानां भुक्तशेषन्त भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्रविशां विधिः” ॥ चान्द्रं चान्द्रायणम् । कृच्छ्रं तप्तकृच्छ्रम् । एतच्च ब्राह्मणस्य सकृदज्ञानविषयं बलात्कारानुत्तारे- ऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरञ्च । तत्राज्ञाने आप- स्तम्बेन उच्छिष्टे चान्द्रायणविधानात् । अङ्गिरसा अन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यत- स्तप्तकृच्छ्रविधानात् अनुच्छिष्टेऽपि तथात्वादेव सर्व्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यं बोध्यम् । प्राय- श्चित्तविवेके संसर्गप्रकरणेऽप्येवम् । क्षत्रियवि- शीश्चापदि ज्ञेयम्” ॥ * ॥ “सर्व्वत्रोच्छिष्टे तु व्रत- द्वैगुण्यं आपदज्ञानभुक्तोत्तारिते मासयावकव्रतं तदशक्तौ धेनुद्वयं षट्कार्षापणा वा देयाः । तत्रो- च्छिष्टान्ने पराक इति । अभ्यासभेदे त्वावृत्ति- रूहणीया” । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथो- च्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् । (तत्रैव उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तप्रकरणे द्रष्टव्यम् ।) आपस्तम्बः । “भुक्तोच्छिष्टस्त्वानाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम् ॥ गायन्यष्टसहस्नन्तु द्रुपदां वा शतं जपेत् । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् । अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा” ॥ प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येनाद्यग्रास आस्ये निक्षिप्तः न तु निगीर्णः । दक्षः । “पाने मैथुनसंसर्गे तथा मूत्रपूरीषयोः । संस्पर्शं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह ॥ दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।” दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम् ॥ काश्यपः । श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः । यद्यच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत् ॥ एतद्ज्ञानाभ्यासे सान्तपने धेनुद्वयं ॥ ब्रह्मपुराणे । “उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः । उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥ उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः । उभौ स्नानं प्रकुरुतं सद्य एव समाहितौ” ॥ अनुच्छिष्टशूद्रस्पर्शे उच्छिष्टब्राह्मणस्य नक्तमिति प्रायश्चित्तविवेकः ॥ त्यक्तं । इति हेमचन्द्रः ॥ (यथा, शतपथब्राह्मणे २ । ३१ । ११ । “हुतोच्छिष्टमिदम्” । इति । अनाचान्तो भक्षकः । यथा मनुः २ । ५६ । “नचैवात्यशनं कुर्य्यात् नचोच्छिष्टः क्वचित् व्रजेत्” ।
