उज्ज्वलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उज्ज्वलम्, त्रि, (उच्चैर्ज्वलति प्रकाशते इति । उत् + ज्वल् + अच् ।) दीप्तम् । विशदम् । विकाशितम् । इति मेदिनी ॥ (यथा, साहित्यदर्पणे । ३ परि- च्छेदः । “अस्माकं सखि ! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं” । “विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिःस्वना” ॥)
उज्ज्वलम्, क्ली, (उत् + ज्वल + अच् ।) स्वर्णम् । इति राजनिर्घण्टः ॥
