उञ्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छम्, क्ली, (उछि + घञ् ।) पक्षिचञ्च्वादानवत् शस्य- ग्रहणं । यथा । उपात्तशस्यात् क्षेत्रात् शेषावच- यने । उञ्छेन पक्षिचञ्च्वादानवद्ग्रहणेन शिल्यते सञ्चीयते उञ्छशिलं उच्छिउञ्छे शिल उञ्छे कृद्धोरित्युक्तेः कृगृज्ञेति इजुङत्वात् कः उञ्छशि- लम् । संघातं विगृहीतं विपर्य्यस्तञ्च नाम । “शक्या न चेदुञ्छशिलेन वृत्तिः । फलेन मूलेन च वारिणा च” इति । समाहारद्वन्द्वे उञ्छं शिलञ्च । उञ्छं भैक्षञ्च यच्चान्यत्तत् परिग्रहणन्तु ऋतम् । इति निगमाभिधाने क्लीवम् । पुमानुञ्छऋतशिलं इति वोपालिते पुंस्युञ्छः । भवभूतिकृतशिलोञ्छे इति गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः । “प्रति- ग्रहात् शिलं श्रेयस्ततोऽप्यञ्छः प्रशस्यते” । इति तत्र शाल्यादेर्निपातितपरित्यक्तमञ्चरीणां आदानं शिलं । शिलं धान्यमञ्जरीसंग्रहः । इति स्वामी च । एकैकशः कपोतवद्धान्यकणोद्ग्रहणमुञ्छः । तदुक्तं उञ्छो धान्यकणोच्चय इति । शिलं ताल- ष्यादि दन्त्यादि च । धर्म्मात्वात् सत्यमिति ऋतम् । इति उञ्छशिलशब्दटाकायां भरतः ॥

उञ्छः, पुं, (उछि उञ्छे + घञ् ।) उञ्छशिलम् । इति जटाधरः ॥ (यथा, रामायणे । २ । २४ । २ । “मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छ¦ पु॰ उछि--घञ्।
“अबाधितस्थानेषु पथि क्षेत्रेषु चच अप्रतिहतावकाशेषु यत्र कुत्रौषधयो विद्यन्ते तत्रा-ङ्गुलीभ्यामेकैकं कणं समुच्चिनोतीति” बौधा॰ स्मृत्युक्तेकणशआदाने।
“शिलोञ्छमप्याददीत विप्रोऽजीवन्यतस्ततः” मनुः।
“एवं वृत्तस्य नृपतेरुञ्छेनापि चजीवतः” मनुः।
“तान्युञ्छषष्ठाङ्कितसैकतानि” रघुः।
“निरा-हारस्तु स मुनिरुञ्छं मार्गयते पुनः”
“तथामुमुञ्छ-धर्म्माणं दुर्वासा मुनिसत्तमः” शिलोञ्छवृत्तिधर्म्मात्मा मुद्गलसंयतेन्द्रियः” भा॰ व॰

१५

९ अ॰।
“प्रतिग्रहाच्छिलःश्रेयांस्ततोऽप्युञ्छः प्रशस्यते” मनुः।
“व्यालग्रहानुञ्छवृत्ती-नन्यांश्च वनचांरिणः” मनुः। अस्य क्लीवताऽपि
“उञ्छं भैक्ष्यंयदन्यच्च तत्परिग्रहणम् ऋतम्” निगमोक्तेः
“प्रतिग्रहात्शिलं श्रेयस्ततोऽप्युञ्छं प्रशस्यते” स्मृत्यन्तरे चोक्तम्। उञ्छशिलमिति समस्तमपि शब्दान्तरं केचिदिच्छन्ति। उञ्छेनपक्षिचञ्चूवद्ग्रहणेन शिल्यते संचीयते इति तद्व्युत्-पत्तेः
“ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्। मृतन्तुयाचितं भैक्ष्यं प्रभृतं कर्षणं स्मृतम्” मनुः।

उञ्छ¦ र॰ उछि--भावे ल्युट्। आपणक्षेत्रादिपतिस्यक्षेत्रस्वामिगृहीतविक्रीतावशिष्टस्य धान्यादेः कणश आदाने

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छ¦ n. (-ञ्छं) Gathering grains. E. उछि to glean, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छः [uñchḥ], [उञ्छ्-घञ्] Gleaning or gathering grains; तान्युञ्छषष्ठाङ्कितसैकतानि R.5.8; Ms.1.112. तस्मादुञ्छषड्- भागमारण्यका अपि निवपन्ति Kau. A.1.13. -ञ्छ्म् Gleaning.-Comp. -वर्तिन्, -वृत्ति, -शील a. one who lives by gleaning grains, a gleaner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उञ्छ m. gleaning , gathering grains Mn. MBh. R.

"https://sa.wiktionary.org/w/index.php?title=उञ्छ&oldid=492207" इत्यस्माद् प्रतिप्राप्तम्