सामग्री पर जाएँ

उञ्छम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उञ्छम्, क्ली, (उछि + घञ् ।) पक्षिचञ्च्वादानवत् शस्य- ग्रहणं । यथा । उपात्तशस्यात् क्षेत्रात् शेषावच- यने । उञ्छेन पक्षिचञ्च्वादानवद्ग्रहणेन शिल्यते सञ्चीयते उञ्छशिलं उच्छिउञ्छे शिल उञ्छे कृद्धोरित्युक्तेः कृगृज्ञेति इजुङत्वात् कः उञ्छशि- लम् । संघातं विगृहीतं विपर्य्यस्तञ्च नाम । “शक्या न चेदुञ्छशिलेन वृत्तिः । फलेन मूलेन च वारिणा च” इति । समाहारद्वन्द्वे उञ्छं शिलञ्च । उञ्छं भैक्षञ्च यच्चान्यत्तत् परिग्रहणन्तु ऋतम् । इति निगमाभिधाने क्लीवम् । पुमानुञ्छऋतशिलं इति वोपालिते पुंस्युञ्छः । भवभूतिकृतशिलोञ्छे इति गोवर्द्धनः । केचिदुञ्छशिलयोर्भेदमाहुः । “प्रति- ग्रहात् शिलं श्रेयस्ततोऽप्यञ्छः प्रशस्यते” । इति तत्र शाल्यादेर्निपातितपरित्यक्तमञ्चरीणां आदानं शिलं । शिलं धान्यमञ्जरीसंग्रहः । इति स्वामी च । एकैकशः कपोतवद्धान्यकणोद्ग्रहणमुञ्छः । तदुक्तं उञ्छो धान्यकणोच्चय इति । शिलं ताल- ष्यादि दन्त्यादि च । धर्म्मात्वात् सत्यमिति ऋतम् । इति उञ्छशिलशब्दटाकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=उञ्छम्&oldid=117444" इत्यस्माद् प्रतिप्राप्तम्