उटजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उटजः, पुं, क्ली, (उटास्तृणपर्णादयस्तेभ्योजायते इति । उट + जन + ड ।) मुनीनां पत्ररचितगृहम् । तत्पर्य्यायः । पर्णशाला २ । इत्यमरः ॥ पर्णोटजः ३ । इति शब्दरत्नावली ॥ यथा रघुः । (‘आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः’ । १ । ५० । ‘मृगैर्वर्त्तितरोमन्थमुटजाङ्गनभूमिषु” । १ । ५२ ।) गृहमात्रम् । इत्यमरमाला ॥
