उडुचक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उडुचक्र¦ न॰ उडूनां चक्रमिव मण्डलम्।
१ नक्षत्रमण्डलेभचक्रे तस्य संस्थितिश्च” सि॰ शि॰ उक्ता उच्चशब्देतच्च दर्शितम्। उडुचक्रस्वरूपादि सू॰ सि॰उक्तम् यथा
“ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते। तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा। मन्दामरेज्यभूपुत्रसूर्य्यशुक्रेन्दुजेन्दवः। परिभ्रमन्त्यधोऽधस्थाःसिद्धविद्याधरा धनाः”।
“ब्रह्माण्डान्तःपरिधिस्तत्तुल्यमानं वृत्तं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते। तन्मध्येब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तु-ल्योर्ध्वान्तरितानां भ्रमणं भवति। तथा तुल्योर्ध्वान्तरेणा-धोधोनक्षत्रेभ्यः शनिवृहस्प तिभौमार्कशुक्रबुधचन्द्राअधस्तात्परिभ्रमन्ति। सिद्धा विद्याधाराघनाश्चाधस्थाश्चन्द्रादधः-स्थिता अधोऽधः क्रमेणाकाशे स्थिताः। प्रवहवायावव-स्थानाभावाश्चन्द्रवन्न तेषां परिभ्रमः” र॰ ना॰। तस्योत्पत्ति-विभागस्तत्रैव।
“पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम्। नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी” सू॰ सि॰।
“पुनरनन्तरमात्मान द्वादशधा द्वादशस्थानेषु राशिसंज्ञकं व्यभजत्मनःकल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोदित्यर्थः। भूयो द्वितीयवारमात्मानं नक्षत्ररूपिणं सप्तविंशात्मकंव्यभजत्। मनःकल्पितं तदेव वृत्तं सप्तविंशतिविभागंचाकरोदित्यर्थः। ननु न्यूनाधिकविभागाः कथं नकृताः? उक्तसङ्ख्यायां नियामकाभावादित्यत आहवशीति। इच्छाविषपं वशं विद्यते यस्येति वशी स्वतन्त्रेच्छस्य नियोगानर्हत्वात्। स्वेच्छया तत्सङ्ख्याका विभागाःकृता इति भावः। सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि[Page1071-b+ 38] तारात्मकानि निर्मितानीत्यर्थसिद्धम्” र॰ ना॰। तत्र राशि-नक्षत्रनामानि ज्योति॰ त॰ उक्तानि यथा
“मेषवृषमिथुनकर्क-टसिंहाकन्थातुलाधरवृश्चिकभम्। धनुरथ मकरः कुम्भोमीनइति च राशयः कथिताः”।
“अश्विन्या सह भरणीकृत्तिकापादः कीर्त्तितोमेषः। वृषभः कृत्तिकाशेषंरौहिण्यर्द्धञ्च मृगशिरसः। मृगशिरसोऽर्द्धं चार्द्रा पुन-र्व्वसोस्त्रिपादं मिथुनम्। पादः पुनर्व्वसोरन्त्यः पुष्योऽ-श्लेषा च कर्कटः कथितः। सिंहोऽथ मघा पूर्वफल्गुनीपादउत्तरायाः। तच्छेषं हस्ता च चित्रार्द्धं कन्यकाख्यः स्यात्। तौलिनि चित्रार्द्धं स्वातिविशाखायाश्च पादत्रयम्। अलिनिविशाखापादस्तथानुराधान्विता ज्येष्ठा। मूलं पूर्व्वाषाढाप्रथमश्चाप्युत्तरांशको धन्वी। मकरस्तत्परिशेषं श्रयणा-चार्द्धं कनिष्ठायाः। कुम्भोऽथ धनिष्ठार्द्धं शतभिषापौर्व्व-भाद्रपदत्रयम्। भाद्रपदायाः शेषस्तथोत्तरा रेवती मीनः” अश्विन्यादिनक्षत्राणां तारासंख्यातत्सन्निवेशस्वरूपं चश्रीपतिनोक्तम्।
“वह्नित्रिऋत्विषुगुणेन्दुकृतानि भूतवा-णाश्विनेत्रशरभूकुयुगाग्निरामाः। रुद्राब्धिरामगुणवे-दशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशो भताराः। तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटनिभमथैणस्योत्त-माङ्गेन तुल्यम्। मणिगृहशरचक्राभानि शालोपमं चशयनसदृशमन्यच्चात्र पर्य्यङ्करूपम्। हस्ताकारमजस्रमौ-क्तिकसमं चान्यत् प्रवालोपमं धिष्ण्यं तोरणवत् स्थितंबलिनिभं स्यात् कुण्डलाभं परम्। क्रुध्यत्केसरिविक्रमेणसदृशं शय्यासमानं परं चान्यद्दन्तिविलासवत् स्थितमतःशृङ्गाटकव्यक्ति च। त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततो-ऽन्यद्यमलद्वयाभम्। पर्य्यङ्गतुल्यं मुरजानुकारमित्येवमश्व्या-दिभचक्ररूपम्”। भचक्रपरिधिमानम् सि॰ शि॰ उक्तम्
“अभ्रेष्विभाङ्कगजवुञ्ज-रगोऽक्षपक्षाः” (
२५
९८
८९
८८
५० योजनानि) कक्षां गृणन्तिगणका भगणस्य चेमाम्”। तस्य भूमध्यातुच्छ्रितियो-जनानि तु तत्रोक्तानि यथा
“नागाक्षषड्द्वयरसाग्निकुवे-दसंख्यो” (
४१
२६
३६
५८ ) नक्षत्रमण्डलभवः श्रवणोनिरुक्तः”। अस्य च द्वादशधा विभक्तस्य प्रवहवायुनाभ्राम्यमाणस्य दिने षणामुदयः रात्रौ च षणामिति भेदः।
“स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्य्येऽस्तभास्करस-मोऽस्तमयश्च भानाम्” सि॰ शि॰ उक्तेः।
२ ताराणांसमूहे च
“वप्रेण पर्य्यन्तचरोडुचक्रः” माघः।
