उडुपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उडुपः, पुं क्ली, (उडुनोजलात् पाति रक्षतीति । उडु + पा + क ।) भेलकम् । भेला माड् इत्यादि भाषा । तत्पर्य्यायः । प्लवः २ कोआलः ३ । इत्यमरः ॥ भेलकः ४ उडूपः ५ तरणः ६ तारणः ७ तारकः ८ । इति शब्दरत्नावली ॥ (“तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥ इति रघुवंशे । १ । २ ।) चन्द्रे पुं । इति मेदिनी ॥ (“अपश्यत् वदनं तस्य रश्मिवन्तमिवोडुपम्” । इति महाभारते । वनपर्ब्बणि ॥ चर्म्मावनद्धपान- पात्रं । यथा, -- “चर्म्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्” ॥ इति सज्जनः ॥)
