सामग्री पर जाएँ

उडुम्बरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उडुम्बरः, पुं, (उडु + वृ + अच् ।) उदुम्बरवृक्षः । यज्ञडुमुर इति भाषा । तत्पर्य्यायः । जन्तुफलः २ यज्ञाङ्गः ३ हेमदुग्धकः ४ । इत्यमरः ॥ ब्रह्मवृक्षः ५ । इति रत्नमाला ॥ हेमदुग्धी ६ यज्ञफलः ७ यज्ञोडम्बरः ८ । इति शब्दरत्नावली ॥ सदाफलः ९ क्षीरवृक्षः १० शुचक्षुः ११ श्वेतवल्कलः १२ । इति जटाधरः ॥ अस्य गुणाः । उडुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रणुत् । मधुरस्तुवरो वर्ण्यो व्रणशोधनरोपणः ॥ इति भावप्रकाशः ॥ (“उडुम्बरफलं पक्वं चूर्णितं कर्षमात्रकम् । संलिहेन्मधुना सर्व्वमनुपानं सुखावहम्” ॥ इति वैद्यक रसेन्द्रसारसंग्रहे मूत्राघाताधिकारे ।) अन्यत् उदुम्बरशब्दे द्रष्टव्यम् ॥ देहली । गोव- राटेर निचेर काठ इति भाषा । पण्डम् । नपुं- सकमिति यावत् । कुष्ठरोगभेदः । इति मेदिनी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उडुम्बरः [uḍumbarḥ], 1 N. of a tree; Ficus Glomearata (Mar. औदुम्बर).

The threshold of a house. उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुदुम्बरः Bṛi. S.53.26.

A eunuch.

A part of a sacrifice.

A kind of leprosy with copper spots (-रम् also).

A kind of worm said to be produced in the blood and to cause leprosy.

रम् The fruit of the उदुम्बर tree.

Copper.

A Karṣa, a measure of two tolās. -Comp. -दला, -पर्णी the plant Croton Polyandra (दन्ती).

"https://sa.wiktionary.org/w/index.php?title=उडुम्बरः&oldid=229101" इत्यस्माद् प्रतिप्राप्तम्