सामग्री पर जाएँ

उडुम्बरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उडुम्बरम्, क्ली, (उडुं वृणातीति । उडु + वृ + अच् ।) ताम्रम् । इति मेदिनी ॥ (“ताम्रं शुल्वमुडुम्बरम्” । इति वैद्यकरत्नमाला । कर्षार्थे यथा, -- “उडुम्बरश्च पर्य्यायैः कर्षएव निगद्यते” ॥ इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमाध्यायः ।) कर्षपरिमाणम् । इति वैद्यकपरिभाषा ॥

"https://sa.wiktionary.org/w/index.php?title=उडुम्बरम्&oldid=117488" इत्यस्माद् प्रतिप्राप्तम्