उतङ्क
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उतङ्क¦ पु॰ आयोदधैम्यशिष्यवेदनामकस्य मुनेः शिष्यमेदे तदु-पाख्यानञ्च” भा॰ आ॰
३ अ॰। वेदमुनिं प्रक्रम्य
“सकदाचित् याज्यकार्य्येणाभिप्रस्थित उतङ्कनामानं शिष्यम्नियोजयामास” इत्युपक्रम्य
“तत्सौम्य! गम्यतामनुजानेभवन्तं श्रेयोऽवाप्ससीति स उपाध्यायेनानुज्ञातो भग-वानुतङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षुर्हास्तिनपुरं प्रतस्थे” इत्यन्तेन विस्तरेण तच्चरितमुपवर्ण्णितम्। तस्यायं संक्षेपः। गुरुदक्षिणादानार्थं गुरवे उतङ्केन निवेदिते गुरुणा स्वप-[Page1073-b+ 38] त्नीयचनात् पौष्यनृपबधूधृतकुण्डलद्वयमेव गुरुदक्षिणात्वेनकल्पितम् तच्च पौष्यनृपपत्नीधृतं कुण्डलद्वयं प्रार्थ्य आन-यतस्तस्य प्रमादतस्तक्षकेणापहृतम् अथ वह्नितो लब्धवरप्र-सादात् नागलोकं गत्वा धूमप्राचुर्य्येण नागलोकावरणेतद्भयात्तत्कुण्डलद्वयं नागैर्दत्तमानीय पुरुपत्न्यै दत्तमिति(
२ भार्गवे गौतमस्य शिष्यभेदे च तत्कथा भारते
“उतङ्को महता युक्तस्तपसा जनमेजय!। गुरुभक्तःस तेजस्री नान्यत् किञ्चिदपूजयत्। सर्वेषामृषिपुत्रा-णामेष आसीन्मनोरथः। औतङ्कीं गुरुवृत्तिं वै प्राप्नुया-मेति भारत!। गौतमस्य तु शिष्याणां बहूनां जनमेजय। उतङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा। स तस्यदमशौचाभ्यां विक्रान्तेन च कर्मणा। सम्यक् सेवो-पचारेण गौतमः प्रीतिमानभूत्। अथ शिष्यसहस्राणिसमनुज्ञातवानृषिः। उतङ्कं परया प्रीत्या नाभ्यनुज्ञातु-मैच्छत। तं क्रमेण जरा तात! प्रतिपेदे महामुनिम्। न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः। ततः कदा-चिद्राजेन्द्र! काष्ठान्यानयितुं ययौ। उतङ्कः काष्ठाभारञ्चमहान्तं समुपानयत्। स तद्भाराभिभूतात्मा काष्ठभारमरि-न्दम!। निष्पपेष क्षितौ राजन्! परिश्रान्तो बुभुक्षितः। तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा। ततः काष्ठैःसह तदा पपात धरग्णीतले। ततः स भारनिष्पिष्टः क्षु-धाविष्टश्च मारत!। दृष्ट्वा तां वयसोऽवस्थां रुदोदार्त्तस्वरस्तदा। ततो गुरुसुता तस्य पद्मपत्रमिभानना। जग्रा-हाश्रूणि सुश्रोणी करेण पृथुलोचना। पितुर्नियोगा-द्धर्मज्ञा शिरसाऽवनता तदा। तस्या निपेततुदग्धौ करौतैरश्रुविन्दभिः। न हि तानश्रुपातांस्तुं शक्ता धारयितुंमही। गौतमस्त्वब्रवीद्विप्रमुतङ्कं प्रीतमानसः। कस्मात्तात!तवाद्येह शोकोत्तरमिदं मनः। सस्वैरं ब्रूहि वि-प्रर्षे! श्रोतुमिच्छामि तत्त्वतः। उतङ्क उवाच। एवङ्गतेनमनसा भवत्प्रियचिकीर्षया। भवद्भक्तिगतेनेह भवद्भावानु-गेन च। जरेयं नावबुद्धा मे नाभिज्ञातं सुखञ्च मे। शतवर्षोषितं मां हि न त्वमभ्यनुजानीयाः। भवतात्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम। उपपन्ना द्विजश्रे-ष्ठाः शतशीऽथ सहस्रशः। गौतम उवाच। त्वत्प्रीति-युक्तेन मया गुरुशुश्रूषया तव। अत्यंक्रामन्महान् कालोनाबबुद्धो द्विजर्षभ!। किन्त्वद्य यदि ते श्रद्धा गमनं प्रतिभार्गव!। अनुज्ञां प्रतिगृह्य त्वं स्वगृहान् गच्छ माचिरम्। उतङ्क उवाच। गुर्वर्थं कं प्रयच्छामि ब्रूहि[Page1074-a+ 38] त्वं द्विजसत्तम। तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो!। गीतम उवाच। दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते। तव ह्याचतरतो ब्रह्मंस्तुष्टोहं वै न संशयः। इत्थञ्चपरितुष्टं मां विजानीहि भृगूद्वह!। युवा षोडशवर्षोहि यद्यद्य भविता भवान्। ददानि पत्नीं कन्याञ्च स्वांते दुहितरं द्विज!। एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हतिसेवितुम्। ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्। गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्। कं भवत्यैप्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्। प्रियं हितञ्च का-ङ्क्षामि प्राणैरपि धनैरपि। यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत्। तदानयेयं तपसा न हि मेऽत्रास्तिसंशयः। अहल्योवाच। परितुष्टाऽस्मि ते विप्र! नित्यंभक्त्याऽनयाऽनघ!। पर्य्याप्तमेतद्भद्रन्ते गच्छतात! ययेप्सि-तम्। वैशम्पायन उवाच। उतङ्कस्तु महाराज पुनरेवाव्र-वीद्वचः। आज्ञापयस्व मां मातः! कर्त्तव्यञ्च तव प्रियम्। अहल्योवाच। सौदासपत्नीविधृते दिव्ये ये मणिकुण्डले। ते समानय भद्रन्ते गुर्व्वर्थः सुकृतो भवेत्। स तथेतिप्रतिश्रुत्य जगाम जनमेजय!। गुरुपत्नीप्रियार्थं वै तेसमानयितुं तदा। स जगाम ततः शीघ्रमुतङ्को ब्राह्मण-र्षभः। सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले। गौतमस्त्वब्रवीत् पत्नीमुतङ्को नाद्य दृश्यते। इति पृष्टातमाचष्ट कुण्डलार्थं गतञ्च सा। ततः प्रोवाच पत्नीं स नते सम्यगिदं कृतम्। शप्तः स पार्थिवो नूनं ब्राह्मणं तंबधिष्यति। अहल्योवाच। अजानत्या नियुक्तः स भग-वन्! ब्राह्मणोमया। भवत्प्रसादान्न भयं किञ्चित्तस्य भवि-ष्यति। इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः। उतङ्कोऽपि वने शून्ये राजानं तं ददर्श ह”। आश्व॰
५६ अ॰। इतःपरं तत्कुण्डलानयनादिकं ना-गतक्षकविघ्नमुपवर्ण्य वह्निप्रमादात्तत् नागलोकादानीयगुरुपत्न्यै तद्दानमुक्तमित्ययं संक्षेपो विस्तरस्तत्र दृश्यः। अस्यैव तोयाभिलाषपूरणार्थमीश्वरेण उतङ्कमेघः प्रव-र्त्तितः तत्कथा उतङ्कमेशषब्दे दृश्या।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उतङ्क m. N. of a ऋषिMBh.
उतङ्क m. (See. also उत्तङ्क.)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a sage; knows the योग power of Hari. फलकम्:F1: भा. II. 7. ४५.फलकम्:/F Pleased by कुवलयाश्व killing Dhundhu. फलकम्:F2: Ib. IX. 6. २२.फलकम्:/F
