सामग्री पर जाएँ

उतप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उतप्य¦ पु॰ अङ्गिरसः श्रद्वायां पत्न्यामुत्पन्ने गुरोर्ज्येष्ठभ्रातरि।
“त्रयोह्यङ्गिरसः पुत्रा एते सर्वत्र विश्रुताः। वृहस्पति-रुतथ्यश्च संवर्त्तश्च धृ तव्रतः” भा॰ आ॰

६६ अ॰। तस्या-पत्यम् अण् औतथ्यः स च उतथ्येन ममतायामुत्पन्नःवृहस्पतिशापात् जात्यन्धतां प्राप्तस्तत्कथा यथा
“अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा। ममतानाम तस्यासीद्भार्य्या परमसम्मता। उतथ्यस्य यवी-यांस्तु पुरोधास्त्रिदिवौकसाम्। द्बहस्पतिर्वृहत्तेजा मम-तामन्वपद्यत। उवाच ममता तन्तु देवरं वदतांवरम्। अन्तर्व्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यताभिति। अयञ्चभे सहाभाग! कुक्षावेव वृहस्पते!। औतथ्यो वेदमत्रापिषडङ्गं प्रत्यधीयत। अमोघरेतास्त्वञ्चापि द्वयोन्नास्त्यत्रसम्भवः। तस्मादेवञ्च नत्वद्य उपारमितुमर्हसि। एव-मुक्तस्तदा सम्यग्वृहस्पतिरधीरधीः। कामात्मानं तदा-त्मानं न शशाक नियच्छितुम्। स बभूव ततः कामीतया सार्द्धमकामया। उत्सृजन्तन्तु तं रेतः स गर्भस्थो-ऽभ्यभाषत। भोस्तात! मा गमः कामं द्वयोर्न्नास्तीहसम्भवः। अल्पावकाशो भगवन्! पूर्व्वं चाहमिहागतः। अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि। अश्रुत्वैव तु त-द्राक्यं गर्भस्थस्य वृहस्पतिः। जगाम मैथुनायैव ममतांचारुलोचनाम्। शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतोमुनिः। पद्भ्यामारोधयन्मार्गं शुक्रस्य च वृहस्पतेः। स्थानमप्राप्तमपतद्रेतः प्रतिहतं तदा। पपात सहसामूमौ ततः क्रुद्धो वृहस्पतिः। तदृष्ट्वा पतितं शुक्र श-शाप स रुषाऽन्वितः। उतथ्यपुत्त्रं गर्भस्थं निर्भर्त्स्यभगवानृषिः। यन्मां त्वमीदृशे काले सर्व्वभूतेप्सितेसति। एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि। स वैदीर्घतमा नाम शापादृषिरजायत। वृहस्पतेर्वृहत्कीर्त्तेर्वृह-स्पतिरिवौजसा। जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे सविंद्यया। तरुणीं रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम्। स पुत्राञ्जनयामास गौतसादीन् महायशाः। ऋषेरुत-थ्यस्य तदा सन्तानकुलवृद्धये। धर्मात्मा च महात्मा चवेदवेदाङ्गपारगः। गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलंमुनिः। प्रावर्त्तत तदा कर्त्तुं श्रद्धावांस्तमशङ्कया”। भा॰ आ॰

१०

४ अ॰।
“शूद्रावेदी पतयत्रेरुतथ्यतनयस्यच” मनुः।
“उतथ्यतनयस्य गौतमस्येति” कुल्लू॰। तस्य[Page1075-b+ 38] उतथ्यपौत्रत्वेऽपि तत्कुलवर्द्धनात्तथात्वं तस्य जात्य-न्धतया स्मृतिकर्त्तृत्वाभावेन तत्पौत्रस्यैव गौतमस्य स्मृतिकर्त्तृत्वात् तस्यैव सम्मतिकथनं युक्तमिति”
“तथ्यामुतथ्यानुवज्जगादाग्रे गदाग्रजः” माघः। अयञ्च आङ्गिरस-गोत्रप्रवरमध्यस्थ ऋषिभेदः

८१

७ पृ॰ विवृतः।

"https://sa.wiktionary.org/w/index.php?title=उतप्य&oldid=229268" इत्यस्माद् प्रतिप्राप्तम्