सामग्री पर जाएँ

उतसाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उतसाह¦ पु॰ उद् + सह--घञ्।

१ उद्यमे,

२ अध्यवसाये, कर्त्तव्य[Page1131-a+ 38] कृत्येषु

३ स्थिरतरे प्रयत्ने
“उत्साहो मन्त्रमूलं स्यादितिनोतिविदां मतम्। प्रभुशक्तिर्मन्त्रमूला तस्मादुत् साहवान्भवेत्” इत्युक्ते राज्ञां

४ गुणविशेषे,
“चारेणोत् साहयोगेनक्रिययैव च कर्मणाम्” मनुः।
“नीताविवोत् साहगुणेनसम्पद्” कुमा॰।

५ कल्याणे, शब्दरत्नावली

६ सूत्रे, मेदिनी
“कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते” सा॰ द॰उक्तलक्षण्के वीररसस्य

७ स्थायिभावे। स च वीर-रसस्य स्थायी भावः
“रतिर्हासश्च शोकश्च-क्रोधीत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौप्रोक्ताः शमस्तथा” स्थायिनो विमज्यस्य
“उत्तमप्रकृति-र्वीरः उत्साहस्थायिभावकः” तत्रोक्तेः। तत्र उद्यममात्रे
“मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन” शकु॰
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः” गीता
“महोत्साहः स्थूललक्ष्यः कृतज्ञोवृद्धसेवकः” या॰ स्मृ॰अस्त्यर्ये बला॰ मतुप् इनि वा उत्साहिन् उत्साहवत्तद्विशिष्टे त्रि॰ स्त्रियां ङीप्।

"https://sa.wiktionary.org/w/index.php?title=उतसाह&oldid=229271" इत्यस्माद् प्रतिप्राप्तम्