उत्कटम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्कटम्, त्रि, (उद्गतः कटः आवरणं आवरको वा यस्य ।) तीव्रम् । मत्तम् । इति मेदिनी ॥ विषमम् । इति शब्दरत्नावली ॥ (यथा रामायणे ५ काण्डे । “चन्द्रांशुनिकराभासा हाराः कासाञ्चिदुत्कटाः । स्तनमध्ये सुविन्यस्ता विरेजुर्हंसपाण्डराः” ॥)
उत्कटम्, क्ली, गुडत्वक् । तेजपात इति ख्यातं इति केचित् । इत्यमरमरतौ ॥ दारचिनि । इति ख्यातम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायानाह भावप्रकाशे पूर्ब्बखण्डे, “त्वक्पत्रञ्च वराङ्गंस्याद् भृङ्गञ्चोदन्तमुत्कटम्” ।)
