उत्कण्ठिता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्कण्ठिता, स्त्री, (उत्कण्ठा सञ्जातास्याः । उत्कण्ठा + इतच् + टाप् ।) स्वीयादिनायिकाभेदः । अस्याः लक्षणम् । “सङ्केतस्थलं प्रति भर्त्तुरना- गमनकारणं चिन्तयति या” । अस्याश्चेष्टाः । अरति-सन्ताप-जृम्भाङ्गाकृष्टि-कम्प- रुदित -श्वासावस्थाकथनादयः । इति रसमञ्जरी ॥ (इयमेव विरहोत्कण्ठिता । यदुक्तं साहित्यदर्पणे तृतीयपरिच्छेदे । “आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः । तदागमनदुःखार्त्ता विरहोत्कण्ठिता तु सा” ॥ तत्रैव । १० परिच्छेदे अपह्नुतेरुदाहरणम् । यथा, -- ‘उत्कण्ठितासि तरले ! नहि नहि सखि ! पिच्छिलः पन्थाः’ ॥)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्कण्ठिता f. a woman longing after her absent husband or lover.
