सामग्री पर जाएँ

उत्कर्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्कर्षः, पुं, (उत् + कृष् + घञ् ।) अतिशयः । इत्य- मरः ॥ (प्राधान्यं । श्रेष्ठता । यथा, “उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले” । इति शाकुन्तले २ य अङ्के । “निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्” । इति मनुः ४ । २४४ ॥ वृद्धिः । यथा, -- “पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः” । इति रघुः । ४ । ११ ।) अतिशययुक्ते त्रि ॥ स्वका- लात् परकालकर्त्तव्यः । इति स्मृतिः ॥

"https://sa.wiktionary.org/w/index.php?title=उत्कर्षः&oldid=117568" इत्यस्माद् प्रतिप्राप्तम्