उत्क्षेपण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपणम्, क्ली, (उत् + क्षिप् + ल्युट् ।) व्यजनम् । धान्यमर्द्दनवस्तु । इति मेदिनी ॥ उदञ्चनम् । ऊर्द्ध्व- क्षेपणम् । (“अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्” इति शाकुन्तले प्रथमाङ्क्ते ।) षोडशपणम् । इति हेमचन्द्रः ॥ (न्यायमते पञ्चकर्म्ममध्यपरिगणितम् । यथा भाषापरिच्छेदे । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” । ६ ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपण¦ न॰ उद् + क्षिप--ल्युट्।
१ ऊर्द्ध्वक्षेपणे।
“उत्क्षेपणंतथावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कुर्म्माण्ये-तानि पञ्च च” भाषा॰
“उतक्षेपणमवक्षेपण-माकुञ्चनं प्रसारणं गमनमिति कर्म्माणि” कणा॰ सू॰
“इतिरवधारणार्थः भ्रमणादेरपि गमनान्तर्गतत्वात्। अत्र च उत्क्षेपणत्वावक्षेप्रणत्वाकुञ्चनत्वप्रसारणत्वग-मनत्वानि कर्म्मत्वसाक्षांद्व्याप्याः पञ्च जातयः। नन्वेत-दनुप्रपन्नंगमनस्य कर्म्मपर्य्यायत्वात् सर्व्वत्र गच्छतीतिबुद्धे-र्दृष्टत्वादुत्क्षेपणत्वादीनां चतसृणां जातीनां परस्परा-त्यन्ताभावसमानाधिकरणानां सामानाधिकरण्याननुमवात्चतस्र एव कर्म्मत्वव्याप्या जातय इति चेत् सत्यं कर्म्म-पर्य्याय एव गमनं पृथगभिधानन्तु भ्रमणरेचनस्यन्दनो-र्द्ध्वज्वलननमनोन्नमनांदीनां भिन्नभिन्नबुद्धिव्यपदेशभाजा-मेकेन शब्देन सङ्ग्रहार्थं यद्वा गमनत्वमपि कर्म्मत्वव्याप्यापञ्चमी जातिरेव तेन भ्रमणरेचनादिष्वेव गमनप्रयोगोमुख्यः उत्क्षेपणावक्षेपणादिषु यदि गमनप्रयोगस्तदाभाक्तः स्वाश्रयसंयीगविभागासमवायिकारणत्वमेव गौण-मुख्यसाधारणो धर्म्मः गमनत्वजातेस्त्वनियतदिग्देशसंयो-गविभागासमवायिकारणत्वमेव व्यञ्जकं तच्च भ्रमणादिषुसर्व्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति। निष्क्र-[Page1087-a+ 38] मणत्वप्रवेशनत्वादिका तु न जातिः एकस्मिन्नेव कर्म्मणिगृहाद् गृहान्तरं गच्छति पुरुषे कस्यचित् द्रष्टुः प्रविश-तीति प्रत्ययः कस्यचित्तु निष्क्रामतीति तत्र जातिसङ्करःस्यात् तथा भ्रमणादेरेकस्या जलप्रणाल्या निष्क्रम्यापरांप्रविशति निष्क्रामति प्रविशतीति प्रत्ययद्वयदर्शनादुपाधि-सामान्यमेवैतदध्यवसेयम्। उत्क्षेपणादौ तु मुसलमुत्-क्षिपाणीतीच्छाजनितेन प्रयत्नेन प्रयत्नवदात्मसंयोगादस-मवायिकारणाद्धस्ते तावदुत्क्षेपणं तत उत्क्षेपणविशिष्टहस्तनोदनादसमवायिकारणात् मुसलेऽप्युत्क्षेपणाख्यं कर्म्मंयुगपद्वा तत् ऊर्द्ध्वमुत्क्षिप्तयोर्हस्तमुसलयोरवक्षेपणेच्छा-जनितप्रयत्नवदात्मसंयोगाद्धस्तनोदनाच्च युगपदेव हस्तेमुसले चावक्षेपणम् उलूखलपातानुकूलं संजायते ततोदुढतरद्रव्यसंयोगाद् यदकस्मान्मुसलस्योर्द्ध्वगमनं भवतितत्र नेच्छा न वा प्रयत्नः कारणं किन्तु संस्कारमात्रादेवमुसलस्योत्पतनं तच्च गमनमात्रं नतूत्क्षेपणं, भाक्तस्त-त्रोत्क्षेपणव्यवहारः एवमनुलोमप्रतिलोमवायुद्वयसङ्घट्ट-वशाद्वाय्योस्तत्प्रेरिततृणतूलकादौ चोत्क्षेपणव्यवहारोभाक्तः। एवं स्रोतोद्वयसङ्घट्टवशाज्जलोर्द्ध्वगमनेऽपि। एवमुत्क्षेपणावक्षेपणव्यवहारः शरीरतदवयवतत्संयुक्तमुस-लतोमरादिष्वेव मुख्यः। भवति हि हस्तमुत्क्षिपतितोमरमुत्क्षिपतीति एवमवक्षिपतीत्यपि” उपस्करः। उत्क्षेणञ्च श्रौते कर्म्मणि गोघ्राणायोग्यदेशक्षेपणे भवतितथा हि।
“मूतयोः कृत्वा वेणुयष्ट्यां वा कुपे वासज्यो-भयतः स्थाणुवृक्षवंशवल्मीकानामन्यतमस्मिन्नुत्क्षेपण-वदासजत्येतत्ते” कात्या॰
५ ,
१० ,
२१ ।
“उत्क्षेषणवदितिगोरध्राणदेशम्” कर्कः यजु॰
३ ,
६१ मन्त्रव्या॰
“गो-भिराघ्रातुमशक्यत्वादिति” बेददी॰ तत्पदं व्याख्यात्।
“अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्” शकु॰। करणे ल्युट्।
२ धान्यमर्दनकाष्ठादौ मेदि॰
३ उदञ्चने
४ षोडशपणे च हेमच॰। कर्म्मणि ल्युट्।
५ व्यजने न॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपण¦ n. (-णं)
1. A fan.
2. A kind of basket or bowl used for clean- ing corn.
3. Throwing upwards, tossing.
4. Sending, sending away.
5. Vomiting.
6. Taking up.
7. A measure of sixteen Panas E. उत up, क्षिप् to throw or send, ल्युट् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपणम् [utkṣēpaṇam], 1 Throwing upwards, lifting or tossing up; अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात् Ś.1.29.
Throwing upwards, regarded by the Vaiśeṣikas as one of the five karmans q. v.
Vomiting.
Sending away, despatching.
A kind of basket for cleaning corn; a kind of stick for threshing corn.
A fan.
A measure of sixteen Paṇas.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपण/ उत्-क्षेपण n. the act of throwing upwards , tossing Ka1tyS3r. S3ak. 30 a
उत्क्षेपण/ उत्-क्षेपण n. sending , sending away Sus3r.
उत्क्षेपण/ उत्-क्षेपण n. vomiting , taking up
उत्क्षेपण/ उत्-क्षेपण n. a kind of basket or bowl used for cleaning corn L.
उत्क्षेपण/ उत्-क्षेपण n. a fan L.
उत्क्षेपण/ उत्-क्षेपण n. a measure of sixteen पणs L.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्क्षेपण न.
(उद् + क्षिप् + ल्युट्) (चावल के गोले को) ऊपर की ओर उछालना, का.श्रौ.सू. 5.1०.18 (त्र्यम्बकेष्टि)।
