उत्तमर्ण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमर्णः, पुं, (उत्तममृणमस्य । ऋणमाधमर्ण्ये इति सूत्रे आधमर्ण्यशब्देन व्यवहारविशेषो लक्ष्यते ।) ऋणदाता । इत्यमरः ॥ महाजन इति भाषा । तत्पर्य्यायः । ऋणदः २ । इति जटाधरः ॥ (“अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेत् धनिकस्यार्थमधमर्णात् विभावितम्” ॥ इति मनुः । ८ । ४७ ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमर्ण पुं।
ऋणव्यवहारे_धनस्वामिः
समानार्थक:उत्तमर्ण
2।9।5।1।1
उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्. कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः॥
सेवक : ऋणव्यवहारे_धनग्राहकः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमर्ण¦ पु॰ उत्तममृणमस्य। ऋणप्रयोजके (महाजन)। उत्तमर्णवृद्ध्यादिग्रहणधर्मोविष्णुना दर्शितो यथा
“अथोत्त-मर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् द्विकं त्रिकं चतुष्कंपञ्चकञ्च शतं वर्णानुक्रमेण प्रतिमासम्। सर्वेवर्णा वास्वप्रतिपन्नां वृद्धिं दद्युः। अकृतामपि वत्सरातिक्रमेणयथाविहिताम्। आध्युपभोगे वृद्ध्यभावः। दैवराजोप-घातादृते विनष्टमाधिमुत्तमर्णोदद्यात्। अन्तवृद्धौ प्रवि-ष्टायामपि। न स्थावरमाधिमृते वचनात्। गृहीतधनप्रवे-शार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात्। दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्धते। हिरण्यस्य परा वृद्धिर्द्विगुणा, धान्यस्य त्रिगुणा, व-स्त्रस्य चतुर्गुणा, सन्ततिः स्त्रीपशूनाम्। किण्वका-र्पाससूत्रचर्म्मायुधेष्टकाङ्गाराणामक्षया, अनुक्तानां द्वि-गुणा। प्रयुक्तमर्थं यथा कथञ्चित् साधयन्न राज्ञोवाच्यःस्यात्। साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः। उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णोराज्ञे धनद-शभागसम्मितं दण्डं दद्यात्। प्राप्तार्थश्चोत्तमर्णोविंशति-तितममंशम्। सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं द-[Page1088-b+ 38] द्यात्। तस्य च भावनास्तिस्रोभवन्ति लिखितं साक्षिणःसमयक्रिया च। ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात्। लिखितार्थप्रविष्टे लिखितं पाटयेत्। असमग्रदाने लेख्या-सन्निधाने चोत्तमर्णोलिखितं दद्यात्”। अधिकमृणशब्देवक्ष्यते। उत्तमं देयत्वेनास्त्यस्य ठन्। उत्तमर्ण्णिको-ऽप्यत्र।
“पञ्च पञ्चशतम् दाप्यः प्राप्तार्थोह्युत्तमर्ण्णिकः” या॰ स्मृ॰।
“यैर्यैरुपापैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः। स्तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम्” मनुः
“ते च उपा-या वृहस्पतिना दर्शिताः यथा।
“छद्मना याचितञ्चार्थ-मानीय ऋणिकाद्बलैः। अन्याहृतादि वाहृत्य दाप्यतेतत्र सोपधिः। दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवे-शनम्। यत्रार्थी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते। बद्ध्वा-स्वगृहमानीय ताडनाद्यैरुपक्रमैः। ऋणिको दाप्यतेयत्र बलात्कारः स कीर्त्तितः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमर्ण¦ mfn. (-र्णः-र्णा-र्णं) A creditor. E. उत्तम chief, and ऋण a debt.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमर्ण/ उत्-तम-- m. ( उत्तम-ऋण)a creditor Pa1n2. 1-4 , 35 Mn. etc.
उत्तमर्ण/ उत्-तम-- m. pl. N. of a people VP. Ma1rkP.
उत्तमर्ण etc. See. under उत्तम.