उत्तमसाहस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमसाहसः, पुं, (उत्तमः साहसोऽस्त्यस्मिन् ।) दण्डविशेषः । स तु साशीतिपणसाहस्रः । यथा । साशीतिपणसाहस्रो दण्ड उत्तमसाहसः” । इति याज्ञवल्क्यः ॥ सहस्रपणमितोऽपि । यथा, “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्नं त्वेव चोत्तमः” ॥ इति मनुः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमसाहस¦ पु॰ साहसमधिकृततयाऽस्त्यस्य अर्श॰ अच् +कर्म्म॰। स्मृत्युक्ते साहसाधिकारेण विहिते
१ उत्कृष्टेदण्डे।
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः” मनुः
“अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्” या॰ स्मृ॰नानास्थाने उत्तमदण्डविषयमाह विष्णः यथादण्ड्य इत्युपकुमे
“परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम्”।
“व्यङ्ग्यतायुक्ताक्षेपे कार्षापणशतम्”
“मातृयुक्तेतूत्तमम्”
“पारजायी सवर्ण्णागमने तूत्तमसाहसं दण्ड्यः”।
“अदुष्टां(कन्याम्) दुष्टामिति ब्रुवन्नुत्तमसाहसम्”
“फलोपगमद्रुमो-च्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः” (अवगोरयिता)शस्त्रेणोत्तमसाहसं दण्ड्यः” नेत्रकन्धराबाहुसक्थ्यं सभ-ङ्गेचोत्तमम्” (साहसं दण्ड्यः)
“रत्नान्यपहार्य्युत्तससाह-सम्”।
“यस्तयोः (पितापुत्रयोर्विवादे) पान्तरः[Page1089-a+ 38] स्यात्तस्योत्तमसाहसः
“तुलामानकूटकर्तुश्च तदकूटे कूट-वादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च”।
“स-म्भूय बणिजां पण्यमनर्घेणावरुन्धताम्” प्रत्येकं
“विक्रीणताञ्च”।
“यस्तूत्तमवर्णान् दास्ये नियोजति-स्योत्तमसाहसदण्डः”।
“सीमाभेत्तारमुत्तमसाहसेन दण्ड-यित्वा पुनः सीमां कारयेत्”
“अभक्ष्यस्याविक्रेयस्य चविक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसम् दण्डनीयः।
“भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु”।
२ प्राणिहिंसा-दिरूपे बलकृते कर्म्मभेदे न॰। तत्रोत्तमसाहसा-दिस्वरूपलक्षणविभागादि मिता॰ दर्शितं यथा।
“सामा-न्यद्रव्यप्रसभहरणात् साहसं स्मृतम्” या॰ स्मृ॰।
“सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेणपरकीयस्य वा द्रव्यस्यापहरणं साहसम्। कुतः प्रसभहर-णात् प्रसह्याहरणाब्बलावष्टम्भेन हरणादिति यावत्। एतदुक्तं भवति। राजदण्डञ्जनाक्रोशं चोल्लङ्घ्य राज-पुरुषेतरजनसमक्षं यत्किञ्चिद्धरणमारणपरदारप्रधर्षणादिकंक्रियते तत् सर्वं साहसमिति साहसलक्षणम्। अतः साधा-रणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वा-त्साहसत्वमिति। नारदेनापि साहसस्य स्वरूपं विवृतम्।
“सहसा क्रियते कर्म यत् किञ्चिद्बलदर्पितैः। तत्साहस-मिति प्रोक्तं सहो बलमिहोच्यते”। तदिदं साहसञ्चौ-र्य्यवाग्दण्डपारुष्यस्त्रीसंग्रहेषु व्यासक्तमपि बलदर्पावष्ट-म्भोपाधितोभिद्यत इति दण्डातिरेकार्थं पृथगभिधा-नस्य दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैवि-ध्यमभिधाय तल्लक्षणन्तेनैव विवृतम्।
“तत् पुनस्त्विविधंज्ञेयं प्रथमं मध्यमन्तथा। उत्तमञ्चेति शास्त्रेषु तस्योक्तंलक्षणं पृथक्। फलमूलोदकादीनां क्षेत्रोपकरणस्य च। भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम्। वासः-पश्वन्नपानानां गृहोपकरणस्य च। एतेनैव प्रकारेण म-ध्यमं साहसं स्मृतम्। व्यापादोविषशस्त्राद्यैः परदारा-भिमर्शनम्। प्राणोपरधि यच्चान्यदुक्तमुत्तमसाहसम्। तस्यदण्डः क्रियाक्षेपः प्रथमस्य शताबरः। मध्यमस्य तुशास्त्रज्ञैर्दृष्टः पञ्चशतावरः। उत्तमे साहसे दण्डः स-हस्रावर इष्यते। बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहमे” इति। बधादय-श्चापराधतारतम्यादुत्तमसाहसे समस्ताव्यस्ता वा योज्याः”। तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह” मिता॰।
“तन्मूल्याद्द्विगुणोदण्डोनिह्नवे तु चतुर्गुणः” या॰ स्मृ॰। [Page1089-b+ 38]
“तस्यापहृतद्रव्यस्य मूल्याद्द्विगुणोदण्डः यः पुनः साहसंकृत्वा नाहमककार्षमिति निह्नुते तस्य मूल्याच्चतुर्गुणोदण्डो भवति। एतस्मादेव विशेषदण्डविधानात् प्रथमसाह-सादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयम्” मिता॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमसाहस¦ n. (-सं)
1. The highest of the three fixed mulcts or fines; a fine of 1,000 or of 80,000 Panas.
2. Capital punishment, brand- ing, banishment, confiscation, mutilation and death. E. उत्तम the best or greatest, साहस infliction.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमसाहस/ उत्-तम--साहस n. the highest of the three fixed mulcts or fines (a fine of 1000 or of 80 ,000 पणs ; capital punishment , branding , banishment , confiscation , mutilation , and death).
