सामग्री पर जाएँ

उत्तमस्त्रीसंग्रहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्तमस्त्रीसंग्रहण¦ न॰ परस्त्रियाः संग्रहणं कर्म्म॰। स्मृत्युक्तेपरस्त्रियामुत्तमे मिथुनाभावाय प्रवृत्तिरूपव्यापारभेदे तत्-स्वरूपविभागादि मिता॰ दर्शितं यथा
“प्रथम साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेनविवृतम्।
“त्रिविधन्तत्समाख्यातमधमं मध्यमोत्तमम्। अदेश-कालभाषाभिर्निर्जने च परस्त्रियाः। कटाक्षावेक्षणं हास्य-म्प्रथमं साहसं स्मृतम्। प्रेषणङ्गन्धमाल्यानान्धूपभूषण-वाससाम्। प्रलोभनञ्चान्नपानैर्मध्यमं समुदाहृतम्। सहासनं विविक्तेषु परस्परमपाश्रयः। केशाकेशि ग्रहश्चैवसम्यक् संग्रहणं स्कृतम्”। स्त्रीपुंसयोर्मिथुनीभावः सं-ग्रहणं संग्रहणज्ञानपूर्ब्बकत्वात्तत्कर्तुर्दण्डविधानस्य तज्-ज्ञानोपायन्तावदाह।
“पुमान् संग्रहणे ग्राह्यः केशा-केशि परस्त्रियाः। सद्योवा कामजैश्चिह्नैः प्रतिपत्तौ द्वयो-स्तथा” या॰ स्मृ॰। संग्रहणे प्रवृत्तः पुमान् केशाकेश्या-दिभिर्ल्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः। परस्परकेशग्रहणपूर्ब्बका-क्रीडा केशाकेशि
“तत्र तेनेदमिति सरूप” इति पा॰ बहु-ब्रीहौ सति
“इच् कर्म्मव्यतिहारे” पा॰ इति समासान्तइच् प्रत्ययः अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः। ततश्चायमर्घः। परभार्य्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदश-नादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयीः सम्पतिपत्त्या वा ज्ञा-त्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः। परस्त्रीग्रहणं नियु-क्तावरुद्बादिव्युदासार्थम्। किञ्च।
“नीवीस्तनप्रावरणसक्थिकेशावमर्शनम्। अदेशकालसम्भाषं सहैकस्थानमेव च” या॰ स्मृ॰। यःपुनः परदारपरिधानग्रन्थिप्रदेशकुचप्राव-रणजघनमूर्द्धरुहादिस्पर्शनं साभिलाषैवाचरति। तथाअदेशे निर्जने जनताकीर्णे वान्धकाराकुलेऽकाले संलापनङ्करोति। परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावति-ष्ठते। सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः। एतच्चाशङ्क्यमानदोषपुरुषविषयमितरस्य न दोषः। यथाह मनुः।
“यस्त्वनाक्षारितः पूर्व्वमभिभाषेत कारणात्। न दोषम्प्रा-प्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः” इति यः परस्त्रियास्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम्।
“स्त्रियंस्पृशेददेशे यः स्पृष्टोबा मर्षयेत्तथा। परस्परस्यानुभते सर्वंसंग्रहणं स्मृतमिति” यश्च मयेयं विदग्धाऽसकृद्रमि-[Page1090-a+ 37] तेति श्लाघया भुजङ्गजनसमक्षङ्ख्यापयत्यसावपि ग्राह्यइति तेनैवोक्तम्।
“दर्पाद्वा यदि वा मोहात् श्लाघया वास्वयं वदेत्। पूर्ब्बं मयेयम्भुक्तेति तच्च संग्रहणं स्मृतम्”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्तमस्त्रीसंग्रहण/ उत्-तम--स्त्री-संग्रहण = -संग्रहabove.

"https://sa.wiktionary.org/w/index.php?title=उत्तमस्त्रीसंग्रहण&oldid=230139" इत्यस्माद् प्रतिप्राप्तम्