उत्तमाङ्गम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तमाङ्गम्, क्ली, (उत्तमं प्रशम्तमङ्गं ।) मस्तकं । इत्थ- मरः ॥ (“कश्चित् द्विषत्खङ्गहृतोत्तमाङ्गः” । इति रघौ । ७ । ५१ । “बभौ पतद्गङ्गैवोत्तमाङ्गे” । इति कुमारे ॥ ७ । ४१ । मुखम् । यथा, मानवे १ । ९३ ॥ “उत्तमाङ्गोद्भवाज्ज्येष्ठात् ब्राह्मणश्चैव धारणात् । सर्ष्वस्यैवास्य सर्गस्य धर्म्मतो ब्राह्मणः प्रभुः” ॥ उत्तमाङ्गं मुखं इति तट्टीका ॥)
