सामग्री पर जाएँ

उत्तरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्तरः पुं, विराटराजपुत्त्रः । इति हेमचन्द्रः ॥ (यथा महाभारते ३ । गोहरणपर्ब्बणि ३५ । ३३ “तमुत्तरं वीक्ष्य रथोत्तमे स्थितम्” । तत्रैव ३४ “सहोत्तरे- णास्तु तदद्य मङ्गलम्”) । (स्वनामख्यातपर्ब्बत- भेदः । यया, “दक्षिणस्योत्तरो गिरिः” । इति रामायणे ॥ उत्तरयति संसारसागरात् इति व्युत्पत्तेः । शिवः । हरिः ॥ भारते । १३ । १४९ । ६६ ॥)

उत्तरः, त्रि, (उदतिशयेन उद्गतः । उत् + तरप् ।) ऊर्द्ध्वः । उदीची । (यथा, रामायणे । “उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्” ।) उत्तमः इति मेदिनी अमरश्च ॥ (प्रधानं । श्रेष्ठः । यथा, रघुः १३ । ७ । “नृपा इवोपप्लविनः परेभ्यो, धर्म्मोत्तरं मध्यममाश्रयन्ते” । “ब्रह्मधर्म्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्” इति महाभारतम् ॥) अनन्तरम् । (“वित्तं बन्धुर्बयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्” ॥ इति मनुः । २ । १३६ ॥)

"https://sa.wiktionary.org/w/index.php?title=उत्तरः&oldid=117684" इत्यस्माद् प्रतिप्राप्तम्