उत्तरदिगीश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरदिगीश¦ पु॰
६ त॰।
“इन्द्रोवह्निपितृपतिर्नैरृतो-वरुणोमरुत्। कुवेर ईशः पतयः पूर्व्वादीनां दिशांक्रमात्” इत्युक्ते
१ कुवेरे उत्तरदिक्पालादयोऽप्यत्र।
“कुवेरगुप्तां दिशमुष्णरश्मौ” कुमारे
“कौवेरदिग्भाग-मपास्य मार्गम्” माघे च उत्तरदिशः कुवेरसम्बन्धित्वमुक्तम्
“सूर्य्यः शुक्रः क्षमापुत्रः सैहिकेयः शनिःशशी। सौम्य-स्त्रिदशमन्त्री च प्राच्यादिकदिगीश्वराः” इत्युक्ते
२ बुधे[Page1096-a+ 38] एतच्च
“दिगीशाहे शुभा यात्रा पृष्ठाहे मरणं घ्रुवम्” इत्युक्तेः उत्तरदिशः पृष्ठीभतदक्षिणस्यां बुधवारे यात्रानिषे-घाय
“प्राच्यादिककुभां नाथाः यथासंख्यं प्रदक्षिणम्। मेषाद्याः राशयो ज्ञेया स्त्रिरावृत्तपरिभ्रमात् इत्युक्तेषु
३ कर्कटवृश्चिकमीनेषु राशिषु च तेषु लम्बेषु तत्स्थेचन्द्रे च उत्तरदिग्गमनं शस्तमित्यपि बोध्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरदिगीश/ उत्तर--दिग्-ईश m. N. of कुवेर.
