उत्तरमीमांसा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरमीमांसा¦ स्त्री उत्तरस्य वेदशेषभागस्य उपनिषद्-रूपस्य मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मकोवि-वारः।
“अथातो ब्रह्मजिज्ञासा” इत्यादौ
“अनावृत्तिःशब्दात्” इत्यन्ते चतुरध्यायीरूपे षोडशपादात्मके शारीरस्यब्रह्मात्मत्वप्रतिपादके वेदव्यासरचिते शारीरकसूत्राख्येग्रन्ये। तत्र प्रतिपाद्यविषयादि संक्षेपतः वैयासिकमालायांभारतीतीर्थमुनिना दर्शितं यथा
“शास्त्रं ब्रह्मविचा-राख्यमध्यायाः स्युश्चतुर्विधाः। समन्वयाविरोधौ द्वौसाधनं च फलं तथा”
४ । समन्वये स्पष्टलिङ्गम-स्पटत्वमुपास्यगम्। ज्ञेयगं पदमात्रं च चिन्त्यं पादे-ष्वदः क्रमात्”
५ । द्वितीये स्मृतितर्काभ्यामविरोधो-ऽन्यदुष्टता। भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरष्यविरुद्धता”
६ । तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम्। गुणोपसंहृतिर्ज्ञानबहिरङ्गादिसाधनम्
७ । चतुर्थे जीवतोमुक्तिरुत्क्रान्तिर्गतिरुत्तरा। ब्रह्मप्राप्तिब्रह्मलोकावाप्तीः पादा-र्थसंग्रहः”
८ ।
“अध्यायचतुष्टयात्मकस्य शास्त्रस्य ब्रह्म-विचारोऽर्थः सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्प-र्य्येण पर्य्यवसानं प्रथमाध्यायेन प्रतिपाद्यते। द्विती-येन सम्भावितविरोधः परिह्रियते। तृतीयेन विद्यासा-धननिर्णयः। चतुर्थेन विद्याफलनिर्णयः इत्येते अध्या-यार्थाः
४ । तत्र प्रथमाध्यायगतपादार्थान् विभजते। समन्वयेति। स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमे पादेचिन्त्यम्।
“अन्तस्तद्धर्मोपदेशाद्” इत्यत्र सार्वज्ञ्यसार्वात्म्य-[Page1097-b+ 38] सर्वपापविरहादिकं च ब्रह्मणोऽसाधारणतया स्पष्टब्रह्म-लिङ्गम्। अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयं वाक्यजातंद्वितीयपादे चिन्त्यम्। तद्यथा प्रथमाधिकरणविषये शा-ण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सोपाविकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टब्रह्मलिङ्गम्। तृतीयपादे त्वस्पष्टव्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्य-जातं चिन्त्यं तद्यथा प्रथमाधिकरणे मुण्डकगतब्रह्मत-त्त्ववाक्ये द्युभ्वन्तरिक्षाद्योतत्वं सूत्रात्मनः परब्रह्म-णश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम्। यद्यपि द्वितीय-पादे कठवल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि। तृती-यपादे दहरोपासनावाक्यं विचारितं तथाप्यवान्तरसंगतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोःसाङ्कर्यापत्तिः इत्येवं पादत्रयेण वाक्यविचारः समापितः। चतुर्थपादे त्वव्यक्तपदमजापदं चेत्येवमादिसन्दिग्धपदं चि-न्त्यम्
५ । द्वितोयाध्यायगतपादार्थान्विभजते द्वितीये इति!प्रथमपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादि-प्रयुक्ततर्कैश्च विरोध्रो वेदान्तसमन्वयस्य परिहृतः। द्विती-यपादे सांख्यादिमतानां दुष्टत्वं प्रदर्शितम्। तृतीयपादेपूर्वभागेण पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतःउत्तरभागेण जीवश्रुतीनाम् चतुर्थपादे लिङ्गशरीरश्रुतीनांविरोधः परिहृतः
६ । तृतीयाध्यायगतपादार्थान्विभजतेतृतीये इति। प्रथमपादे जीवस्य परलोकगमनागमने विचार्यवैराग्यं निरूपितम्। द्वितीयपादे पूर्वभागेण त्वंपदार्थैःशोधितः। उत्तरभागेण तत्पदार्थः। तृतीयपादेन सगुण-विद्याया गुणोपसंहारी निरूपितः निर्गुणे ब्रह्मणि चपुनरुक्तपदोपसंहारश्च। चतुर्थपादे निर्गुणज्ञानस्य बहि-रङ्गभूतान्याश्रमयज्ञादीन्यन्तरङ्गभूतशमदमनिदिध्यासनादीनिच निरूपितानि
७ । चतुर्थाध्यायगतपादार्थान्विभजतेचतुर्थे इति। प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणमुपासनया-सगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशल-क्षणा मुक्ति रभिहिता। द्वितीये पादे म्रियमाणस्योत्क्रान्ति-प्रकारोनिरूपितः। तृतीयपादे सगुणविदो मृतस्यो-त्तरमार्गोऽभिहितः। चतुर्थपादे पूर्वभागेण निर्गुणब्रह्म-विदो विदेहकैवल्यप्राप्तिरभिहिता, उत्तरभागेण सगुण-ब्रह्मविदो ब्रह्मलोकप्राप्तिर्निरूपिता” तद्व्या॰। मीमांसा हिवेद तात्पर्य्यनिर्ण्णयार्थः न्यायपञ्चकात्मकविचारः। सा चद्विविधा पूर्वभीमांसा उत्तरमीमासा च तत्र पूर्व्वमीमांसाजैमिनिप्रणीता
“अथातोधर्मजिज्ञासा” इत्यादिका, उत्तरमी-[Page1098-a+ 38] मांसा दर्शिता। इयमेव च ब्रह्ममीमांसात्वेन प्रसिद्धा
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरमीमांसा/ उत्तर--मीमांसा f. the वेदान्तphilosophy (an inquiry into the ज्ञान-काण्डor second portion of the वेद; opposed to पूर्व-मीमांसा; See. मिमांसा):
