उत्तरवस्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरवस्ति¦ पु॰ सुश्रुतोक्ते चिकित्साङ्गे यन्त्रभेदे। तत्स्वंरूपप्रयोगप्रकारादि यथा तत्रैव
“वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतःपग्म्। चतुर्द्दशाङ्गुल-नेत्रमातुराङ्गुलिसम्भितम्। मालतीपुष्पवृन्ताग्रं छिद्रंसर्षपनिर्गमम्। मेढ्रायामसमं केचिदिच्छन्ति खलु त-द्विदः। स्नेहप्रमाणं परमं कुञ्चश्चात्र प्रकीर्त्तितः। पञ्च-विंशादधोमात्रां विदध्याद्बुद्धिकल्पिताम्। निविष्टकर्णिकंमध्ये नारीणां चतुरङ्गुलम्। मूत्रस्तोतःपरीणाह-मुद्गवाहिदशाङ्गुलम्। तासामपत्यभार्गे तु निदध्याच्चतुर-ङ्गुलम्। द्व्यङ्गुलं मूत्रमार्गे तु कन्यानान्त्वेकमङ्गुलम्। विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा। स्नेहस्य प्रसृ-तञ्चात्र स्वाङ्गुलीमूलसंमितम्। देयं प्रमाणं परमम-र्वाग्बुद्धिविकल्पितम्। औरभ्रः शौकरो वापि वस्तिराजश्चपूजितः। तदलाभे प्रयुञ्जीत गलचर्म्म तु पक्षिणाम्। अस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा। अथातुर-मुपस्निग्धं सुस्विन्नं प्रथिताशयम्। यवागूं सघृतक्षीरांपीतवन्तं यथाबलम्। निषण्णमाजानुसमे पीठे स्थानाश्रयेसमे। स्वभ्यक्तवस्तिमूर्द्धानं तैलेनोष्णेन मानवम्। ततःसमं स्थापयित्वा नालमस्य प्रहर्षितम्। पूर्वं शलाकयाऽ-न्विष्य ततो नेत्नमनन्तरम्। शनैःशनैर्घृताभ्यक्तं विदध्या-दङ्गुलानि षट्। ततोऽवपीडयेद्वस्तिंश नैर्नेत्रंच निर्हरेत्। ततः प्रथागते स्नेहमपराह्णे विचक्षणः। भोजयेत् पयसोमात्रां यूषेणाथ रसेन वा। अनेन विधिना दद्याद्वस्तींस्त्रीं-श्चतुरोऽपिवा। ऊर्द्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः। कल्येतरस्यै कन्यायै दद्यात्सुमृदु पीडितम्। त्रिकर्णिकेननेत्रेण दद्याद्योनिमुखं प्रति। गर्भाशयविशुद्ध्यर्थं स्नेहेनद्विगुणेन तु। अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते। भूयोवस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः। गुदे वर्त्तिंनिदध्याद्वा शोधनद्रव्यसंभृताम्। प्रवेशयेद्वा मतिमान्त-स्तिद्वारमथैषणीम्। पीडयेद्वाप्यधोनाभेर्बलेनोत्तरमुष्टिना। आरग्बधस्य पत्रेषु निर्गुण्ड्याः सुरसेषु च। कुर्य्याद्गोमू-त्रपिष्टेष वर्त्तीर्वापि ससैन्धवाः। मुद्गैलासर्षपसमाः प्रवि-[Page1098-b+ 38] भज्य वयांसि तु। वस्तेरागमनार्थाय ता निदध्याच्छला-कया। आगारधूमवृहतीपिप्पलीफलसैन्धबैः। कृता वाशुक्तगोभत्रसुरापिष्टैः सनागरैः। अनुवासनसिद्धिञ्च वीक्ष्यकर्म प्रयोजयेत्। शर्करामधुमिश्रेण शीतेन मधुकाम्बुना। दह्यमाने तदा वस्तौ दद्याद्वस्तिं विचक्षणः। क्षीरवृक्षक-षायेण पयसा शीतलेन च। शुक्रं दुष्टं शोणितं चाङ्ग-नानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम्। मूत्राघातान्मूत्र-दीषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः। श्रुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्क्षणे मेहनेच। घोरानन्यान् वस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति वस्तिः। सम्यग्दत्तस्थ लिङ्गानि व्यापदः क्रमएव च। वस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरवस्ति¦ f. (-स्तिः) A small syringe, a urethra injection pipe. E. उत्तर best, वस्ति syringe.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरवस्ति/ उत्तर--वस्ति f. a small syringe , a urethra injection pipe Sus3r.
