उत्तरसाक्षी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरसाक्षी, [न्] त्रि, स्वपक्षसम्बन्धिसाक्ष्यं परि- भाषतां साक्षिणां यः स्वयं शृणोति अर्थिना श्राव्यते वा सः । तथाच नारदः । “साक्षिणामपि यः साक्ष्यं स्वपक्षं परिभाषताम् । श्रवणात् श्रावणाद्वापि स साक्ष्युत्तरसंज्ञकः” ॥ इति व्यवहारतत्त्वम् । परसाक्षी इति भाषा ॥
