सामग्री पर जाएँ

उत्तरायणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्तरायणम्, क्ली, (उत्तरा उत्तरस्यां अयनं सूर्य्यादे- र्गमनम् । पूर्ब्बपदात्संज्ञायामिति णत्वम् ।) सूर्य्यस्य उत्तरदिग्गमनकालः । स तु माघादिषण्मासा- त्मकः । इति हेमचन्द्रः ॥ (यथाह सूर्य्यसिद्धान्तः । “भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् । कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्” ॥ “माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादितः । उत्तरायणमाद्यैस्तैस्त्रिभिः स्याद्दक्षिणायनम्” ।) देवानां दिनम् । इति स्मृतिः ॥ (मकरसंक्रान्तिः । “वानप्रस्थाश्रमिभिर्विप्रैः करणीयो यागभेदः” । यदुक्तं मनुना ६ । १० । “ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यानि चाहरेत् । उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च” ॥ “शिशिरश्च वसन्तोऽपि ग्रीष्मः स्यादुत्तरायणे” । इति हारीते प्रथमस्थाने चतुर्थोऽध्यायः ॥ “शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् । आदानञ्च तदा दत्ते नृणां प्रतिदिनं बलम् ॥ तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षामार्गस्वमावतः । आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात् । तस्मादादानमाग्नेयम्” । इति सूत्रस्थाने तृतीयेऽ- ध्याये वाभटेनोक्तं ॥ “तत्र ते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल- विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च” । “उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्या- य्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तो भव- न्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां बलमपहीयते” ॥ इति सूत्रस्थाने षष्ठेऽध्याये सुश्रुतेनोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=उत्तरायणम्&oldid=117758" इत्यस्माद् प्रतिप्राप्तम्