उत्तानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तानम्, त्रि, (उद्गतस्तानो विस्तारो यस्मात् ।) अग- म्भीरम् । ऊर्द्ध्वमुखशयितम् । इति मेदिनो ॥ चित् इति भाषा । (ऊर्द्ध्वतलम् । यथा, “उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये” । इति कुमारे ३ । ४५ । तथा, याज्ञवल्क्यः । “पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत्” । “उत्तानं लेपनाभ्यङ्गपरिषेकावगाहनैः । विरेकास्थापनैः स्नेहपानैर्गम्भीरमाचरेत्” ॥ इति चिकित्सास्थाने द्वाविंशेऽध्याये वाभटेनोक्तं ॥ “उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् । नाभौ निधाय धाराम्बु शीतदाहनिवारणम्” ॥ इति हारीते चिकित्सितस्थाने द्वितीयोऽध्यायः ॥)
