सामग्री पर जाएँ

उत्तालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्तालः, त्रि, (उत् + तल् + घञ् ।) उत्कटः । श्रेष्ठः । विकरालः । प्लवङ्गमः । इति मेदिनी ॥ (“लसदुत्तालवेतालतालवाद्यं विवेश तत् । श्मशानं कृष्णरजनीनिवासभवनोपमम्” ॥ इति कथासरित्सागरे २५ । १३६ ॥ “अन्योन्यप्रतिधातसङ्कुलचलत्कल्लोलकोलाहलैः उत्तालान्तैमे गभीरपयसः पुण्याः सरित्सङ्गमाः” । इति उत्तरचरिते । २ य अङ्के ।) त्वरितः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=उत्तालः&oldid=117820" इत्यस्माद् प्रतिप्राप्तम्